Click on words to see what they mean.

संजय उवाच ।हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् ।पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥ १ ॥
वासुदेवस्तु हर्षेण महताभिपरिप्लुतः ।ननाद सिंहवन्नादं व्यथयन्निव भारत ।विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥ २ ॥
स विनद्य महानादमभीशून्संनियम्य च ।ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥ ३ ॥
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् ।रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥ ४ ॥
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् ।अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥ ५ ॥
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥ ६ ॥
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥ ७ ॥
नैतत्कारणमल्पं हि भविष्यति जनार्दन ।तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ ८ ॥
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम ।धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥ ९ ॥
समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम् ।तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥ १० ॥
वासुदेव उवाच ।अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय ।अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥ ११ ॥
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय ॥ १२ ॥
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥ १३ ॥
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः ।दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥ १४ ॥
यदि हि स्यात्सकवचस्तथैव च सकुण्डलः ।सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥ १५ ॥
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥ १६ ॥
गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् ।न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ १७ ॥
त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः ।विहीनकवचश्चायं कृतः परपुरंजयः ॥ १८ ॥
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥ १९ ॥
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा ।तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥ २० ॥
यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना ।वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥ २१ ॥
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ २२ ॥
एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् ।ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥ २३ ॥
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः ।रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥ २४ ॥
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः ।केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ।विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥ २५ ॥
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् ।त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ।शरजालसहस्रांशुः शरदीव दिवाकरः ॥ २६ ॥
तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ ।दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ।सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥ २७ ॥
एको हि योगोऽस्य भवेद्वधाय छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् ।कृच्छ्रप्राप्तं रथचक्रे निमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥ २८ ॥
जरासंधश्चेदिराजो महात्मा महाबलश्चैकलव्यो निषादः ।एकैकशो निहताः सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥ २९ ॥
अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः ।अलायुधः परसैन्यावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥ ३० ॥
« »