Click on words to see what they mean.

संजय उवाच ।संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् ।वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ॥ १ ॥
पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् ।पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥ २ ॥
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् ।जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ॥ ३ ॥
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् ।युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ।तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ॥ ४ ॥
अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् ।वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥ ५ ॥
आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः ।नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ॥ ६ ॥
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् ।परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ॥ ७ ॥
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् ।धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ॥ ८ ॥
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः ।अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ॥ ९ ॥
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः ।नकुलः सहदेवश्च सात्यकिश्च महारथः ।ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ॥ १० ॥
अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् ।परिघेणातिकायेन ताडयामास मूर्धनि ॥ ११ ॥
स तु तेन प्रहारेण भैमसेनिर्महाबलः ।ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ॥ १२ ॥
ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् ।चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ॥ १३ ॥
सा हयान्सारथिं चैव रथं चास्य महास्वना ।चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥ १४ ॥
स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः ।उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥ १५ ॥
स समास्थाय मायां तु ववर्ष रुधिरं बहु ।विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ॥ १६ ॥
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः ।महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ॥ १७ ॥
तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु ।ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ॥ १८ ॥
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि ।अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ॥ १९ ॥
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् ।दिशो विध्वंसयामास तदद्भुतमिवाभवत् ॥ २० ॥
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् ।आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥ २१ ॥
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः ।नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ॥ २२ ॥
अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि ।उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ॥ २३ ॥
शमीपीलुकरीरैश्च शम्याकैश्चैव भारत ।इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥ २४ ॥
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः ।महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ॥ २५ ॥
विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः ।तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥ २६ ॥
युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप ।हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥ २७ ॥
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा ।प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ॥ २८ ॥
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ ।भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ २९ ॥
तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप ।रुधिरं च महाकायावभिवृष्टाविवाचलौ ॥ ३० ॥
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् ।बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ॥ ३१ ॥
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् ।तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ ३२ ॥
हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् ।पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥ ३३ ॥
ततो भेरीसहस्राणि शङ्खानामयुतानि च ।अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ॥ ३४ ॥
अतीव सा निशा तेषां बभूव विजयावहा ।विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥ ३५ ॥
अलायुधस्य तु शिरो भैमसेनिर्महाबलः ।दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ॥ ३६ ॥
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् ।बभूव परमोद्विग्नः सह सैन्येन भारत ॥ ३७ ॥
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि ।हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥ ३८ ॥
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः ।जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ॥ ३९ ॥
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै ।प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥ ४० ॥
« »