Click on words to see what they mean.

संजय उवाच ।दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति ।प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे ॥ १ ॥
अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः ।एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ॥ २ ॥
अभियाति द्रुतं कर्णं तद्वारय महारथम् ।वृतः सैन्येन महता याहि यत्र महाबलः ॥ ३ ॥
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ।रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ॥ ४ ॥
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली ।दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥ ५ ॥
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् ।पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ॥ ६ ॥
जटासुरो मम पिता रक्षसामग्रणीः पुरा ।प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ।तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ॥ ७ ॥
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः ।द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ।त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ॥ ८ ॥
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् ।जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥ ९ ॥
अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम् ।हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ॥ १० ॥
ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः ।घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ॥ ११ ॥
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलंबलः ।व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥ १२ ॥
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष ।निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ॥ १३ ॥
घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी ।निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ १४ ॥
अलंबलस्ततः क्रुद्धो भैमसेनिं महामृधे ।आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ १५ ॥
तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च ।घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ॥ १६ ॥
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः ।अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥ १७ ॥
ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् ।उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥ १८ ॥
जटासुरिर्महाराज विरथो हतसारथिः ।घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ॥ १९ ॥
मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः ।क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ॥ २० ॥
ततः स परिघाभेन द्विट्संघघ्नेन बाहुना ।जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥ २१ ॥
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् ।दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ॥ २२ ॥
अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् ।घटोत्कचं रणे रोषान्निष्पिपेष महीतले ॥ २३ ॥
तयोः समभवद्युद्धं गर्जतोरतिकाययोः ।घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम् ॥ २४ ॥
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ ।युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥ २५ ॥
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ ।पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ।पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ॥ २६ ॥
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ ।भृशं चित्रमयुध्येतामलंबलघटोत्कचौ ॥ २७ ॥
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः ।मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ॥ २८ ॥
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः ।युयुधाते महामायौ राक्षसप्रवरौ युधि ॥ २९ ॥
ततो घटोत्कचो राजन्नलंबलवधेप्सया ।उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ॥ ३० ॥
गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् ।उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥ ३१ ॥
ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् ।चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् ॥ ३२ ॥
तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः ।घटोत्कचो ययावाशु दुर्योधनरथं प्रति ॥ ३३ ॥
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः ।रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ।प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ॥ ३४ ॥
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ।एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ।पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ॥ ३५ ॥
एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर ।किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ॥ ३६ ॥
ततः समभवद्युद्धं घोररूपं भयानकम् ।विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ ३७ ॥
« »