Click on words to see what they mean.

धृतराष्ट्र उवाच ।यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥ १ ॥
कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः ।रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ॥ २ ॥
किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ।कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् ।पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय ॥ ३ ॥
संजय उवाच ।लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः ।ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥ ४ ॥
आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् ।सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥ ५ ॥
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः ।महाकायो महाबाहुर्महाशीर्षो महाबलः ॥ ६ ॥
विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः ।स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥ ७ ॥
तथैव हस्ताभरणी महामायोऽङ्गदी तथा ।उरसा धारयन्निष्कमग्निमालां यथाचलः ॥ ८ ॥
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् ।तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥ ९ ॥
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् ।धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ॥ १० ॥
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ॥ ११ ॥
सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् ।अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् ॥ १२ ॥
तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः ।कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः ॥ १३ ॥
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः ।रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे ।स तेन सहितस्तस्थावरुणेन यथा रविः ॥ १४ ॥
संसक्त इव चाभ्रेण यथाद्रिर्महता महान् ।दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ।रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥ १५ ॥
वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् ।व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥ १६ ॥
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः ।तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥ १७ ॥
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः ।अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥ १८ ॥
तेन वित्रास्यमानानि तव सैन्यानि भारत ।समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥ १९ ॥
तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् ।उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥ २० ॥
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् ।मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ॥ २१ ॥
स संनिपातस्तुमुलस्तयोरासीद्विशां पते ।कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ २२ ॥
तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने ।प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ २३ ॥
ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः ।न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥ २४ ॥
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥ २५ ॥
संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् ।धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ॥ २६ ॥
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ ।व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ॥ २७ ॥
तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् ।नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥ २८ ॥
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् ।प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥ २९ ॥
तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः ।धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् ।घटोत्कचं यदा कर्णो विशेषयति नो नृप ॥ ३० ॥
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ।कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ।प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ॥ ३१ ॥
शूलमुद्गरधारिण्या शैलपादपहस्तया ।रक्षसां घोररूपाणां महत्या सेनया वृतः ॥ ३२ ॥
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः ।भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥ ३३ ॥
घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः ।प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ ३४ ॥
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः ।अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ ३५ ॥
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः ।पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ ३६ ॥
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ ३७ ॥
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे ।व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ ३८ ॥
मायायां तु प्रहीणायाममर्षात्स घटोत्कचः ।विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ॥ ३९ ॥
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे ।विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः ॥ ४० ॥
सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् ।घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥ ४१ ॥
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु ।चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ४२ ॥
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् ।चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥ ४३ ॥
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः ।अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि ॥ ४४ ॥
घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् ।कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ४५ ॥
सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥ ४६ ॥
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा ।क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ॥ ४७ ॥
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥ ४८ ॥
ततो मायाविनं कर्णो भीमसेनसुतं दिवि ।मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ ४९ ॥
तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् ।अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ ५० ॥
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ ५१ ॥
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् ।दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ ५२ ॥
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् ।मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ ५३ ॥
सोऽयोधयत्तदा कर्णं मायया लाघवेन च ।अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन् ॥ ५४ ॥
भैमसेनिर्महामायो मायया कुरुसत्तम ।प्रचकार महामायां मोहयन्निव भारत ॥ ५५ ॥
स स्म कृत्वा विरूपाणि वदनान्यशुभाननः ।अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥ ५६ ॥
पुनश्चापि महाकायः संछिन्नः शतधा रणे ।गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत ।हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः ॥ ५७ ॥
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ।पुनश्चापि महाकायः शतशीर्षः शतोदरः ॥ ५८ ॥
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ।अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ।सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ॥ ५९ ॥
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत ।अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥ ६० ॥
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः ॥ ६१ ॥
गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः ।प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते ॥ ६२ ॥
तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि ।युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ ६३ ॥
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् ।उत्पपातान्तरिक्षं च जहास च सुविस्वरम् ।कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ॥ ६४ ॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।रथिनामृषभं कर्णं धाराभिरिव तोयदः ।शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् ॥ ६५ ॥
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ ।घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ६६ ॥
सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः ।शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ ६७ ॥
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् ।प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥ ६८ ॥
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् ।ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥ ६९ ॥
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥ ७० ॥
अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः ।व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ॥ ७१ ॥
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः ।जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥ ७२ ॥
ततः प्रहस्य समरे भैमसेनिर्महाबलः ।प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥ ७३ ॥
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् ।घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ ७४ ॥
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ॥ ७५ ॥
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ।वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ ७६ ॥
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः ।ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ ७७ ॥
भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् ।कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ ७८ ॥
अथान्यद्धनुरादाय दृढं भारसहं महत् ।व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥ ७९ ॥
ततः कर्णो महाराज प्रेषयामास सायकान् ।सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ॥ ८० ॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ ८१ ॥
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ ८२ ॥
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः ।पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ ८३ ॥
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष ।नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ ८४ ॥
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् ।भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ॥ ८५ ॥
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः ॥ ८६ ॥
तलं तलेन संहत्य संदश्य दशनच्छदम् ।रथमास्थाय च पुनर्मायया निर्मितं पुनः ॥ ८७ ॥
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह ॥ ८८ ॥
स ययौ घोररूपेण रथेन रथिनां वरः ।द्वैरथं सूतपुत्रेण पुनरेव विशां पते ॥ ८९ ॥
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः ।अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥ ९० ॥
तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः ।चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ ९१ ॥
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥ ९२ ॥
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा ।यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥ ९३ ॥
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।ततो मुमोच नाराचान्सूतपुत्रः परंतपः ॥ ९४ ॥
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद ।यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने ॥ ९५ ॥
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः ।गन्धर्वनगराकारः पुनरन्तरधीयत ॥ ९६ ॥
एवं स वै महामायो मायया लाघवेन च ।अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥ ९७ ॥
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ॥ ९८ ॥
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः ।चकार बहुधात्मानं भीषयाणो नराधिपान् ॥ ९९ ॥
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥ १०० ॥
स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः ।नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत ॥ १०१ ॥
राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः ।ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् ।अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा ॥ १०२ ॥
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ॥ १०३ ॥
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।आजघान हयानस्य शरैः संनतपर्वभिः ॥ १०४ ॥
ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः ।वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥ १०५ ॥
स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः ।एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ १०६ ॥
« »