Click on words to see what they mean.

संजय उवाच ।ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ॥ १ ॥
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष ।पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २ ॥
तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ ।पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ ३ ॥
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ ४ ॥
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः ।सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ५ ॥
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ॥ ६ ॥
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ।आरुरोह रथं चापि सहदेवस्य मारिष ॥ ७ ॥
कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् ।शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥ ८ ॥
लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् ।अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ॥ ९ ॥
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः ।संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी ॥ १० ॥
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥ ११ ॥
धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥ १२ ॥
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते ।वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥ १३ ॥
नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥ १४ ॥
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह ।तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥ १५ ॥
अपि स्वं समरे योधं धावमानं विचेतसः ।कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥ १६ ॥
तान्यनीकानि भग्नानि द्रवमाणानि भारत ।अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ॥ १७ ॥
अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः ।नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥ १८ ॥
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः ।द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥ १९ ॥
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ॥ २० ॥
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।निशीथे दारुणे काले तपन्तमिव भास्करम् ॥ २१ ॥
कर्णसायकनुन्नानां क्रोशतामेष निस्वनः ।अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥ २२ ॥
यथा विसृजतश्चास्य संदधानस्य चाशुगान् ।पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ॥ २३ ॥
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि ।कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय ॥ २४ ॥
एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् ।भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ॥ २५ ॥
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः ।भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ॥ २६ ॥
द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥ २७ ॥
पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ॥ २८ ॥
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि ।प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥ २९ ॥
स भवानत्र यात्वाशु यत्र कर्णो महारथः ।अहमेनं वधिष्यामि मां वैष मधुसूदन ॥ ३० ॥
वासुदेव उवाच ।पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ ३१ ॥
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय ।ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ ३२ ॥
न तु तावदहं मन्ये प्राप्तकालं तवानघ ।समागमं महाबाहो सूतपुत्रेण संयुगे ॥ ३३ ॥
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी ।त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च ॥ ३४ ॥
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ।स हि भीमेन बलिना जातः सुरपराक्रमः ॥ ३५ ॥
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ।सततं चानुरक्तो वो हितैषी च घटोत्कचः ।विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥ ३६ ॥
संजय उवाच ।एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः ।आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ॥ ३७ ॥
कवची स शरी खड्गी सधन्वा च विशां पते ।अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् ।अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ॥ ३८ ॥
ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् ।अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ॥ ३९ ॥
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ॥ ४० ॥
स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा ।विविधानि तवास्त्राणि सन्ति माया च राक्षसी ॥ ४१ ॥
पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी ।काल्यमाना यथा गावः पालेन रणमूर्धनि ॥ ४२ ॥
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः ।पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥ ४३ ॥
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः ।न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥ ४४ ॥
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ॥ ४५ ॥
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ॥ ४६ ॥
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ॥ ४७ ॥
एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः ।कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥ ४८ ॥
तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः ।संग्रामे युध्यमानस्य सततं भीमनन्दन ॥ ४९ ॥
पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः ।मज्जतां धार्तराष्ट्रेषु भव पारं परंतप ॥ ५० ॥
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ ५१ ॥
जहि कर्णं महेष्वासं निशीथे मायया रणे ।पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥ ५२ ॥
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ॥ ५३ ॥
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥ ५४ ॥
स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥ ५५ ॥
जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥ ५६ ॥
घटोत्कच उवाच ।अलमेवास्मि कर्णाय द्रोणायालं च सत्तम ।अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥ ५७ ॥
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि ।यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ ५८ ॥
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् ।सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥ ५९ ॥
संजय उवाच ।एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा ।अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥ ६० ॥
तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम् ।अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ॥ ६१ ॥
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि ।गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ॥ ६२ ॥
« »