Click on words to see what they mean.

संजय उवाच ।विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः ।क्रोधेन महताविष्टः पुत्रस्तव विशां पते ॥ १ ॥
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् ।अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥ २ ॥
भवद्भ्यामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः ।आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥ ३ ॥
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् ।भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥ ४ ॥
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि ।आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ ॥ ५ ॥
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् ।कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ॥ ६ ॥
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ ।युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ॥ ७ ॥
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते ।प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ ॥ ८ ॥
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ ।शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ॥ ९ ॥
तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः ।अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥ १० ॥
अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् ।अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥ ११ ॥
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः ।दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ।एते कौरव संक्रन्दे शैनेयं पर्यवारयन् ॥ १२ ॥
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् ।विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥ १३ ॥
ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते ।रश्मिभिर्भास्करो राजंस्तमसामिव भारत ॥ १४ ॥
द्रोणेन वध्यमानानां पाञ्चालानां विशां पते ।शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥ १५ ॥
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् ।भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान् ।उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥ १६ ॥
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः ।पाण्डवानां रणे योधाः परलोकं तथापरे ॥ १७ ॥
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः ।निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ १८ ॥
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च ।यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥ १९ ॥
तमसा संवृते लोके न प्राज्ञायत किंचन ।कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ॥ २० ॥
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ ।जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥ २१ ॥
पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः ।जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ॥ २२ ॥
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी ।पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥ २३ ॥
एतयोः शरवर्षेण प्रभग्ना नो महारथाः ।वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ २४ ॥
एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः ।द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥ २५ ॥
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ ।उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ।एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ॥ २६ ॥
वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः ।पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥ २७ ॥
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः ।रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ॥ २८ ॥
एतेन सहितो युध्य पाञ्चालैश्च महारथैः ।आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ॥ २९ ॥
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ ।द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥ ३० ॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥ ३१ ॥
स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान् ।यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ॥ ३२ ॥
तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी ।युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ॥ ३३ ॥
रजसा तमसा चैव संवृते भृशदारुणे ।केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥ ३४ ॥
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः ।प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥ ३५ ॥
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् ।क्रुद्धानां युध्यमानानां जयतां जीयतामपि ॥ ३६ ॥
यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम ।तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत् ॥ ३७ ॥
तथा संयुध्यमानानां विगाढाभून्महानिशा ।पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ ३८ ॥
« »