Click on words to see what they mean.

संजय उवाच ।सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः ।सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥ १ ॥
न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् ।निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥ २ ॥
ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् ।तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे ॥ ३ ॥
तेऽवहन्युयुधानं तु मनोमारुतरंहसः ।यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥ ४ ॥
तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे ।सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत ॥ ५ ॥
विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् ।छादयामास शैनेयं जलदो भास्करं यथा ॥ ६ ॥
असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम् ।छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥ ७ ॥
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् ।सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥ ८ ॥
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ ।सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ॥ ९ ॥
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ ।परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥ १० ॥
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ ।घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ११ ॥
शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ ।श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ ॥ १२ ॥
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् ।खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥ १३ ॥
संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ ।अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥ १४ ॥
ततो युधि महाराज सोमदत्तो महारथः ।अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ॥ १५ ॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥ १६ ॥
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् ।पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥ १७ ॥
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् ।बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥ १८ ॥
सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् ।शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥ १९ ॥
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः ।धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह ॥ २० ॥
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् ।आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥ २१ ॥
अथान्यद्धनुरादाय सोमदत्तो महारथः ।सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥ २२ ॥
सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः ।सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् ॥ २३ ॥
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् ।सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः ॥ २४ ॥
ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् ।मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥ २५ ॥
तमापतन्तं वेगेन परिघं घोरदर्शनम् ।द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ॥ २६ ॥
स पपात द्विधा छिन्न आयसः परिघो महान् ।महीधरस्येव महच्छिखरं वज्रदारितम् ॥ २७ ॥
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे ।धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ २८ ॥
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् ।समीपं प्रेषयामास प्रेतराजस्य भारत ॥ २९ ॥
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा ।जहार रथशार्दूलः प्रहसञ्शिनिपुंगवः ॥ ३० ॥
ततः शरं महाघोरं ज्वलन्तमिव पावकम् ।मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ॥ ३१ ॥
स विमुक्तो बलवता शैनेयेन शरोत्तमः ।घोरस्तस्योरसि विभो निपपाताशु भारत ॥ ३२ ॥
सोऽतिविद्धो बलवता सात्वतेन महारथः ।सोमदत्तो महाबाहुर्निपपात ममार च ॥ ३३ ॥
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः ।महता शरवर्षेण युयुधानमुपाद्रवन् ॥ ३४ ॥
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः ।महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् ॥ ३५ ॥
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् ।शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥ ३६ ॥
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् ।अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥ ३७ ॥
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः ।सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ।युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ ३८ ॥
स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः ।अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥ ३९ ॥
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः ।साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥ ४० ॥
ततो मुहूर्तं व्यथितः शरघातप्रपीडितः ।निषसाद रथोपस्थे द्रोणो भरतसत्तम ॥ ४१ ॥
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः ।क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् ॥ ४२ ॥
असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् ।तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥ ४३ ॥
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् ।युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु ॥ ४४ ॥
उपारमस्व युद्धाय द्रोणाद्भरतसत्तम ।गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे ॥ ४५ ॥
नानुरूपमहं मन्ये युद्धमस्य त्वया सह ।योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति ॥ ४६ ॥
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः ।भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥ ४७ ॥
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः ।मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥ ४८ ॥
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः ।विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥ ४९ ॥
रथघोषेण महता नादयन्वसुधातलम् ।पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश ॥ ५० ॥
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः ।द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ॥ ५१ ॥
« »