Click on words to see what they mean.

संजय उवाच ।ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः ।द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥ १ ॥
ततो दुर्योधनो राजा भारद्वाजेन संवृतः ।अभ्ययात्पाण्डवान्संख्ये ततो युद्धमवर्तत ।घोररूपं महाराज भीरूणां भयवर्धनम् ॥ २ ॥
अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि ।प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः ॥ ३ ॥
अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् ।निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥ ४ ॥
यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि ।प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ॥ ५ ॥
प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः ।निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ ६ ॥
निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः ।रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ ७ ॥
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ ।द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ॥ ८ ॥
हत प्रहरताभीता विध्यत व्यवकृन्तत ।इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥ ९ ॥
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे ।व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः ॥ १० ॥
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ ११ ॥
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् ।महता रथवंशेन परिगृह्य बलं तव ॥ १२ ॥
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः ।भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ १३ ॥
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः ।अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः ॥ १४ ॥
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति ॥ १५ ॥
ततः सा भारती सेना वध्यमाना किरीटिना ।तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ १६ ॥
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।न शक्यन्ते महाराज योधा वारयितुं तदा ॥ १७ ॥
सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः ।तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥ १८ ॥
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः ।प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ १९ ॥
« »