Click on words to see what they mean.

संजय उवाच ।उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् ।अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥ १ ॥
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ॥ २ ॥
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः ।वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥ ३ ॥
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः ।शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥ ४ ॥
कर्ण उवाच ।परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः ।तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ॥ ५ ॥
सत्यं ते प्रतिजानामि समाश्वसिहि भारत ।हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥ ६ ॥
जयं ते प्रतिजानामि वासवस्येव पावकिः ।प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥ ७ ॥
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः ।तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ॥ ८ ॥
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद ।तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ ९ ॥
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् ।अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥ १० ॥
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् ।बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥ ११ ॥
संजय उवाच ।एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् ।स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥ १२ ॥
शोभनं शोभनं कर्ण सनाथः कुरुपुंगवः ।त्वया नाथेन राधेय वचसा यदि सिध्यति ॥ १३ ॥
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः ।न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ॥ १४ ॥
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि ।सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥ १५ ॥
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे ।तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ॥ १६ ॥
विराटनगरे चापि समेताः सर्वकौरवाः ।पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥ १७ ॥
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे ।कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥ १८ ॥
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज ।अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥ १९ ॥
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् ।निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥ २० ॥
तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि ।पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ॥ २१ ॥
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि ।पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ॥ २२ ॥
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः ।धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ॥ २३ ॥
एवं परुषितस्तेन तदा शारद्वतेन सः ।कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥ २४ ॥
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः ।फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ॥ २५ ॥
दोषमत्र न पश्यामि शूराणां रणमूर्धनि ।तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥ २६ ॥
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति ।दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥ २७ ॥
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् ।गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥ २८ ॥
वृथा शूरा न गर्जन्ति सजला इव तोयदाः ।सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥ २९ ॥
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ ।उत्सहे तरसा जेतुं ततो गर्जामि गौतम ॥ ३० ॥
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः ।हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ।दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥ ३१ ॥
कृप उवाच ।मनोरथप्रलापो मे न ग्राह्यस्तव सूतज ।यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ॥ ३२ ॥
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ ।देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ।दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥ ३३ ॥
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः ।नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ।धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ॥ ३४ ॥
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः ।गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ॥ ३५ ॥
संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः ।धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ॥ ३६ ॥
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः ।वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ॥ ३७ ॥
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् ।येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ॥ ३८ ॥
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः ।बलानीको जयानीको जयाश्वो रथवाहनः ॥ ३९ ॥
चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः ।यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥ ४० ॥
कामं खलु जगत्सर्वं सदेवासुरमानवम् ।सयक्षराक्षसगणं सभूतभुजगद्विपम् ।निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ॥ ४१ ॥
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा ।अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ।कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥ ४२ ॥
महानपनयस्त्वेष तव नित्यं हि सूतज ।यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥ ४३ ॥
संजय उवाच ।एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ ।अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥ ४४ ॥
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः ।एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥ ४५ ॥
अजय्याश्च रणे पार्था देवैरपि सवासवैः ।सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ।तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ॥ ४६ ॥
ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज ।एतया निहनिष्यामि सव्यसाचिनमाहवे ॥ ४७ ॥
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः ।अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन ॥ ४८ ॥
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा ।अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ॥ ४९ ॥
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः ।एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥ ५० ॥
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे ।कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥ ५१ ॥
यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज ।ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ ५२ ॥
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे ।भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ।अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ॥ ५३ ॥
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः ।दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ।सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥ ५४ ॥
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः ।जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ॥ ५५ ॥
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः ।धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥ ५६ ॥
एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः ।जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥ ५७ ॥
दैवायत्तमहं मन्ये जयं सुबलिनामपि ।यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥ ५८ ॥
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः ।भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः ॥ ५९ ॥
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् ।एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥ ६० ॥
निहताः समरे शूराः पाण्डवैर्बलवत्तराः ।किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥ ६१ ॥
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज ।तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥ ६२ ॥
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह ।प्रभावं नात्र पश्यामि पाण्डवानां कथंचन ॥ ६३ ॥
यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम ।यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ।दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥ ६४ ॥
« »