Click on words to see what they mean.

संजय उवाच ।तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥ १ ॥
अश्वत्थामोवाच ।कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥ २ ॥
संजय उवाच ।तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् ।न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥ ३ ॥
कर्ण उवाच ।शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ ४ ॥
अश्वत्थामोवाच ।तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ ५ ॥
दुर्योधन उवाच ।अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन ॥ ६ ॥
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले ।महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥ ७ ॥
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः ।आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥ ८ ॥
संजय उवाच ।कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ।पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥ ९ ॥
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः ।संरब्धस्य महाराज सिंहनादविनादितम् ॥ १० ॥
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥ ११ ॥
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे ।युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥ १२ ॥
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् ।हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥ १३ ॥
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता ।अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥ १४ ॥
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः ।हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥ १५ ॥
महता शरवर्षेण छादयन्तो महारथाः ।वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥ १६ ॥
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् ।न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥ १७ ॥
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् ।पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ॥ १८ ॥
सायकौघेन बलवान्क्षिप्रकारी महाबलः ।वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥ १९ ॥
ततस्तु शरवर्षेण पार्थिवास्तमवारयन् ।धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ।अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥ २० ॥
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् ।शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥ २१ ॥
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥ २२ ॥
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥ २३ ॥
निवार्य च शरौघांस्तान्पार्थिवानां महारथः ।युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ।आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥ २४ ॥
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः ।बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥ २५ ॥
हयानां वध्यमानानां गजानां रथिनां तथा ।तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् ॥ २६ ॥
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः ।आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥ २७ ॥
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः ।बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥ २८ ॥
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् ।अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥ २९ ॥
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ।पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥ ३० ॥
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥ ३१ ॥
तद्यथा पश्यमानानां सूतपुत्रं महारथम् ।न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् ॥ ३२ ॥
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः ।प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥ ३३ ॥
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव ।प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥ ३४ ॥
धृतराष्ट्र उवाच ।संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् ।कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥ ३५ ॥
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः ।आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥ ३६ ॥
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् ।कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥ ३७ ॥
संजय उवाच ।आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा ।असंभ्रान्ततरः कर्णः पर्त्युदीयाद्धनंजयम् ॥ ३८ ॥
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः ।वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥ ३९ ॥
तं कर्णः शरजालेन छादयामास मारिष ।विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥ ४० ॥
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ।तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥ ४१ ॥
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः ।विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥ ४२ ॥
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ।तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥ ४३ ॥
पुनरादाय तच्चापं निमेषार्धान्महाबलः ।छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥ ४४ ॥
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत ।व्यधमच्छरवर्षेण स्मयन्निव धनंजयः ॥ ४५ ॥
तौ परस्परमासाद्य शरवर्षेण पार्थिव ।छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥ ४६ ॥
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे ।क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥ ४७ ॥
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् ।मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥ ४८ ॥
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् ।सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥ ४९ ॥
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् ।विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥ ५० ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः ।आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥ ५१ ॥
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ ।धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥ ५२ ॥
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप ।निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥ ५३ ॥
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः ।एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥ ५४ ॥
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना ।द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥ ५५ ॥
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः ।द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥ ५६ ॥
अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥ ५७ ॥
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥ ५८ ॥
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति ।यथा वेलां समासाद्य सागरो मकरालयः ॥ ५९ ॥
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥ ६० ॥
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ ६१ ॥
एष राजा महाबाहुरमर्षी क्रोधमूर्छितः ।पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥ ६२ ॥
यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः ।न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥ ६३ ॥
यावत्फल्गुनबाणानां गोचरं नाधिगच्छति ।कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥ ६४ ॥
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः ।न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥ ६५ ॥
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥ ६६ ॥
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना ।युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥ ६७ ॥
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥ ६८ ॥
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि ।मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥ ६९ ॥
न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति ।अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥ ७० ॥
दुर्योधन उवाच ।आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥ ७१ ॥
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि ।धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥ ७२ ॥
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥ ७३ ॥
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि ।शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥ ७४ ॥
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥ ७५ ॥
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥ ७६ ॥
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः ।मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥ ७७ ॥
तान्वारय महाबाहो केकयांश्च नरोत्तम ।पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥ ७८ ॥
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष ।त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥ ७९ ॥
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत ।एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥ ८० ॥
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥ ८१ ॥
« »