Click on words to see what they mean.

संजय उवाच ।द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा ।द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥ १ ॥
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥ २ ॥
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे ।महता शरवर्षेण छादयामास सर्वतः ॥ ३ ॥
ततः समभवद्युद्धमतीव भयवर्धनम् ।त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥ ४ ॥
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् ।सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ॥ ५ ॥
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् ।वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ॥ ६ ॥
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः ।शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ॥ ७ ॥
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् ।मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥ ८ ॥
सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् ।सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥ ९ ॥
युगपत्पेततुरथ घोरौ परिघमार्गणौ ।शरीरे सोमदत्तस्य स पपात महारथः ॥ १० ॥
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् ।विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ॥ ११ ॥
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः ।पीडयन्वै महात्मानं विव्याध रणमूर्धनि ॥ १२ ॥
प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि ।निचखान महाबाहुः पुरंदर इवाशनिम् ॥ १३ ॥
स तयाभिहतो भीमश्चकम्पे च मुमोह च ।प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥ १४ ॥
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् ।स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥ १५ ॥
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे ।पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥ १६ ॥
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् ।कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥ १७ ॥
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः ।जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ॥ १८ ॥
ततः सप्त रथान्वीरः स्यालानां तव भारत ।निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥ १९ ॥
अमर्षयन्तो निहतं शतचन्द्रं महारथम् ।शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ।अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥ २० ॥
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः ।जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ।तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥ २१ ॥
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् ।मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ॥ २२ ॥
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि ।प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ॥ २३ ॥
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् ।निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥ २४ ॥
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि ।प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥ २५ ॥
हताहरत गृह्णीत विध्यत व्यवकृन्तत ।इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥ २६ ॥
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥ २७ ॥
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥ २८ ॥
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे ।वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ।चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥ २९ ॥
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः ।जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥ ३० ॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः ।प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ।जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥ ३१ ॥
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः ।प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेऽस्त्रे ॥ ३२ ॥
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥ ३३ ॥
ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते ।सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥ ३४ ॥
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥ ३५ ॥
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ ३६ ॥
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ॥ ३७ ॥
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ ३८ ॥
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् ।महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ॥ ३९ ॥
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः ।भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ ४० ॥
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ॥ ४१ ॥
ततः सा भारती सेना वध्यमाना किरीटिना ।द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।नाशक्यन्त महाराज योधा वारयितुं तदा ॥ ४२ ॥
« »