Click on words to see what they mean.

संजय उवाच ।प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः ।सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥ १ ॥
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः ।तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः ॥ २ ॥
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥ ३ ॥
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥ ४ ॥
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे ।नृशंसं पतनीयं च तादृशं कृतवानसि ॥ ५ ॥
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥ ६ ॥
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।न हन्यां निरये घोरे पतेयं वृष्णिपांसन ॥ ७ ॥
एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः ।दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥ ८ ॥
ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः ।सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् ॥ ९ ॥
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ॥ १० ॥
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् ।तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ॥ ११ ॥
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा ।अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥ १२ ॥
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।सकर्णसौबलः संख्ये विनाशं समुपेष्यसि ॥ १३ ॥
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ।अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ॥ १४ ॥
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ॥ १५ ॥
ततो गजसहस्रेण रथानामयुतेन च ।दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥ १६ ॥
शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः ।पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।स्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥ १७ ॥
साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥ १८ ॥
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ।धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ॥ १९ ॥
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥ २० ॥
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् ॥ २१ ॥
सोऽतिविद्धो बलवता समरे दृढधन्वना ।रथोपस्थं समासाद्य मुमोह गतचेतनः ॥ २२ ॥
तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः ।अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥ २३ ॥
तं विसंज्ञं समालोक्य युयुधानशरार्दितम् ।द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ॥ २४ ॥
तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति ।भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् ॥ २५ ॥
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ।युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ॥ २६ ॥
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता ।ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ २७ ॥
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् ।अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥ २८ ॥
शूलमुद्गरधारिण्या शैलपादपहस्तया ।रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥ २९ ॥
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥ ३० ॥
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥ ३१ ॥
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ ३२ ॥
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ॥ ३३ ॥
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः ।पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ ३४ ॥
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥ ३५ ॥
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे ।व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ ३६ ॥
निहतायां तु मायायाममर्षी स घटोत्कचः ।विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ॥ ३७ ॥
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः ।ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ।विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥ ३८ ॥
अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् ।घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥ ३९ ॥
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ४० ॥
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ॥ ४१ ॥
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि ॥ ४२ ॥
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ४३ ॥
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ ४४ ॥
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा ।बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ॥ ४५ ॥
अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥ ४६ ॥
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् ।धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ ४७ ॥
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ॥ ४८ ॥
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना ।भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ॥ ४९ ॥
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥ ५० ॥
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ ५१ ॥
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ॥ ५२ ॥
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥ ५३ ॥
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ॥ ५४ ॥
प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् ।दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ॥ ५५ ॥
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥ ५६ ॥
अश्वत्थामोवाच ।गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ॥ ५७ ॥
कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि ।किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥ ५८ ॥
संजय उवाच ।श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥ ५९ ॥
किमहं कातरो द्रौणे पृथग्जन इवाहवे ।भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ॥ ६० ॥
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ।रक्षसामधिराजोऽहं दशग्रीवसमो बले ॥ ६१ ॥
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ ६२ ॥
इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः ।द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ ६३ ॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ ६४ ॥
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ॥ ६५ ॥
अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ ।विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥ ६६ ॥
निशाम्य निहतां मायां द्रौणिना रणमानिना ।घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ६७ ॥
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः ।शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ ६८ ॥
तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे ॥ ६९ ॥
ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् ।स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ॥ ७० ॥
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥ ७१ ॥
अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः ।व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥ ७२ ॥
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।शतं रथसहस्राणां जघान द्विपदां वरः ॥ ७३ ॥
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ ७४ ॥
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥ ७५ ॥
विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह ।पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ॥ ७६ ॥
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥ ७७ ॥
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥ ७८ ॥
तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया ।सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥ ७९ ॥
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः ।सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥ ८० ॥
दुर्योधन उवाच ।न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥ ८१ ॥
संजय उवाच ।अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।वृतः शतसहस्रेण रथानां रणशोभिनाम् ॥ ८२ ॥
षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् ।कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥ ८३ ॥
उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः ।दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ॥ ८४ ॥
पुरंजयो दृढरथः पताकी हेमपङ्कजः ।शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः ॥ ८५ ॥
कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः ।एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥ ८६ ॥
जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥ ८७ ॥
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ ८८ ॥
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥ ८९ ॥
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ॥ ९० ॥
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥ ९१ ॥
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥ ९२ ॥
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् ।द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ ९३ ॥
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् ।ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ ९४ ॥
ततः शारद्वतीपुत्रः प्रेषयामास भारत ।सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ॥ ९५ ॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ ९६ ॥
विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः ।ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ ९७ ॥
स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् ।पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ ९८ ॥
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥ ९९ ॥
तेषु राजसहस्रेषु पाण्डवेयेषु भारत ।नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ।ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥ १०० ॥
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः ।तलं तलेन संहत्य संदश्य दशनच्छदम् ।स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ॥ १०१ ॥
स ययौ घोररूपेण तेन जैत्रपताकिना ।द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ॥ १०२ ॥
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः ।अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ॥ १०३ ॥
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ १०४ ॥
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा ।विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ॥ १०५ ॥
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् ॥ १०६ ॥
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥ १०७ ॥
धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान् ।सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥ १०८ ॥
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः ।तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥ १०९ ॥
अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः ।योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥ ११० ॥
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ॥ १११ ॥
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ॥ ११२ ॥
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ ११३ ॥
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥ ११४ ॥
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥ ११५ ॥
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ ११६ ॥
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ ११७ ॥
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥ ११८ ॥
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ।छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥ ११९ ॥
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् ।रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ॥ १२० ॥
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् ।मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ॥ १२१ ॥
केशशैवलकल्माषां भीरूणां कश्मलावहाम् ।नागेन्द्रहययोधानां शरीरव्ययसंभवाम् ॥ १२२ ॥
शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् ।योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ॥ १२३ ॥
प्रायादतिमहाघोरं यमक्षयमहोदधिम् ।निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ॥ १२४ ॥
पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् ।स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ॥ १२५ ॥
जघान सुरथं नाम द्रुपदस्य सुतं विभुः ।पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे ॥ १२६ ॥
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ।श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ॥ १२७ ॥
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् ।शत्रुंजयं च बलिनं शक्रलोकं निनाय ह ॥ १२८ ॥
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् ।कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ॥ १२९ ॥
अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् ।मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ १३० ॥
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥ १३१ ॥
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ॥ १३२ ॥
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप ।पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ॥ १३३ ॥
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् ।निधनमुपगतैर्मही कृताभूद्गिरिशिखरैरिव दुर्गमातिरौद्रा ॥ १३४ ॥
तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि ।रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च ॥ १३५ ॥
« »