Click on words to see what they mean.

धृतराष्ट्र उवाच ।तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥ १ ॥
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥ २ ॥
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि ।यदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥ ३ ॥
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने ।दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ ४ ॥
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् ।के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥ ५ ॥
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥ ६ ॥
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥ ७ ॥
सर्वेषु सैन्येषु च संगतेषु रात्रौ समेतेषु महारथेषु ।संलोड्यमानेषु पृथग्विधेषु के वस्तदानीं मतिमन्त आसन् ॥ ८ ॥
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि ।रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ ९ ॥
कथमेषां तदा तत्र पार्थानामपलायिनाम् ।प्रकाशमभवद्रात्रौ कथं कुरुषु संजय ॥ १० ॥
संजय उवाच ।रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥ ११ ॥
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥ १२ ॥
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।तान्सर्वान्प्रेषयामास परलोकाय भारत ॥ १३ ॥
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् ।अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् ॥ १४ ॥
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् ।विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥ १५ ॥
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥ १६ ॥
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ १७ ॥
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे ।पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥ १८ ॥
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥ १९ ॥
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥ २० ॥
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥ २१ ॥
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः ।ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥ २२ ॥
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः ।ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ।स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥ २३ ॥
तं निहत्य महाराज भीमसेनो महाबलः ।जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥ २४ ॥
जयरातमथाक्षिप्य नदन्सव्येन पाणिना ।तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥ २५ ॥
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥ २६ ॥
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः ।तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ॥ २७ ॥
ततस्तव सुता राजन्भीमस्य रथमाव्रजन् ।महता शरवर्षेण छादयन्तो वृकोदरम् ॥ २८ ॥
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ।दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥ २९ ॥
तावेकरथमारूढौ भ्रातरौ परतापनौ ।संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ।यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥ ३० ॥
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥ ३१ ॥
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ ३२ ॥
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।पादप्रहारेण धरां प्रावेशयदरिंदमः ॥ ३३ ॥
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च ॥ ३४ ॥
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् ।रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥ ३५ ॥
एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः ।विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥ ३६ ॥
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥ ३७ ॥
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः ।वृकोदरं भृशमभिपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥ ३८ ॥
ततः सुतास्तव वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना ।वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥ ३९ ॥
ततोऽभवत्तिमिरघनैरिवावृतं महाभये भयदमतीव दारुणम् ।निशामुखे बडवृकगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् ॥ ४० ॥
« »