Click on words to see what they mean.

धृतराष्ट्र उवाच ।यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी ।उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ॥ १ ॥
प्रविश्य विचरन्तं च रणे शूरमवस्थितम् ।कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥ २ ॥
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः ।के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ॥ ३ ॥
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ।धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ ४ ॥
संजय उवाच ।सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ ५ ॥
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः ।पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ॥ ६ ॥
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः ।धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ।मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ॥ ७ ॥
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः ।धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥ ८ ॥
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः ।ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ॥ ९ ॥
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः ।द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥ १० ॥
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः ।सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥ ११ ॥
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ ।बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥ १२ ॥
योधानामशिवा रौद्रा राजन्नन्तकगामिनी ।कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥ १३ ॥
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः ।न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ॥ १४ ॥
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् ।विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ॥ १५ ॥
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् ।भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥ १६ ॥
गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः ।खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥ १७ ॥
ततः समभवद्युद्धं संध्यायामतिदारुणम् ।द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥ १८ ॥
तमसा चावृते लोके न प्राज्ञायत किंचन ।सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥ १९ ॥
नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥ २० ॥
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते ।घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥ २१ ॥
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते ।उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥ २२ ॥
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् ।शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ॥ २३ ॥
ततः सा भारती सेना मणिहेमविभूषिता ।द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥ २४ ॥
गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला ।दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥ २५ ॥
ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः ।समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ॥ २६ ॥
सा निशीथे महाराज सेनादृश्यत भारती ।अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥ २७ ॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ २८ ॥
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः ।संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥ २९ ॥
दुर्योधनपुरोवातां रथनागबलाहकाम् ।वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ॥ ३० ॥
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् ।शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् ॥ ३१ ॥
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् ।तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ॥ ३२ ॥
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते ।भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ ३३ ॥
रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे ।द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ ३४ ॥
ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः ।तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥ ३५ ॥
« »