Click on words to see what they mean.

धृतराष्ट्र उवाच ।तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।मामका यदकुर्वन्त तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष ।अमर्षवशमापन्नः कृपः शारद्वतस्तदा ॥ २ ॥
महता शरवर्षेण पाण्डवं समवाकिरत् ।द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ॥ ३ ॥
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् ।उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥ ४ ॥
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः ।पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥ ५ ॥
सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च ।चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः ॥ ६ ॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥ ७ ॥
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः ।बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥ ८ ॥
अथ शारद्वतो राजन्कौन्तेयशरपीडितः ।अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥ ९ ॥
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥ १० ॥
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि ।अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥ ११ ॥
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् ।रथ एव महेष्वासः कृपणं पर्यदेवयत् ॥ १२ ॥
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् ।कुलान्तकरणे पापे जातमात्रे सुयोधने ॥ १३ ॥
नीयतां परलोकाय साध्वयं कुलपांसनः ।अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥ १४ ॥
तदिदं समनुप्राप्तं वचनं सत्यवादिनः ।तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ॥ १५ ॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् ।को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥ १६ ॥
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा ।एष शेते रथोपस्थे मद्बाणैरभिपीडितः ॥ १७ ॥
अकामयानेन मया विशिखैरर्दितो भृशम् ।अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ॥ १८ ॥
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः ।प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥ १९ ॥
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् ।कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ॥ २० ॥
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः ।प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥ २१ ॥
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः ।घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥ २२ ॥
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् ।आचार्यं शरवर्षेण रथे सादयता कृपम् ॥ २३ ॥
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः ।न कथंचन कौरव्य प्रहर्तव्यं गुराविति ॥ २४ ॥
तदिदं वचनं साधोराचार्यस्य महात्मनः ।नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥ २५ ॥
नमस्तस्मै सुपूज्याय गौतमायापलायिने ।धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ॥ २६ ॥
तथा विलपमाने तु सव्यसाचिनि तं प्रति ।सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ॥ २७ ॥
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः ।प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥ २८ ॥
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति ।न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥ २९ ॥
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ॥ ३० ॥
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥ ३१ ॥
अलमेष महाबाहुः कर्णायैको हि पाण्डव ।किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥ ३२ ॥
न च तावत्क्षमः पार्थ कर्णेन तव संगरः ।प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ।त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥ ३३ ॥
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ॥ ३४ ॥
धृतराष्ट्र उवाच ।योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः ।हते तु भूरिश्रवसि सैन्धवे च निपातिते ॥ ३५ ॥
सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय ॥ ३६ ॥
संजय उवाच ।हन्त ते वर्णयिष्यामि यथावृत्तं महारणे ।शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥ ३७ ॥
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो ।विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ॥ ३८ ॥
अतीतानागतं राजन्स हि वेत्ति जनार्दनः ।अतः सूतं समाहूय दारुकं संदिदेश ह ।रथो मे युज्यतां काल्यमिति राजन्महाबलः ॥ ३९ ॥
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः ।मानवा वा विजेतारः कृष्णयोः सन्ति केचन ॥ ४० ॥
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ॥ ४१ ॥
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् ।दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ॥ ४२ ॥
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् ।रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥ ४३ ॥
स केशवस्यानुमते रथं दारुकसंयुतम् ।आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ॥ ४४ ॥
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः ।हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥ ४५ ॥
युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥ ४६ ॥
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।धनंजयरथं हित्वा राधेयं प्रत्युदीययुः ॥ ४७ ॥
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् ॥ ४८ ॥
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् ।तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ॥ ४९ ॥
उपारमत तत्सैन्यं सरथाश्वनरद्विपम् ।तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ॥ ५० ॥
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ।तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥ ५१ ॥
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः ।सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥ ५२ ॥
नभस्तलगताश्चैव देवगन्धर्वदानवाः ।अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥ ५३ ॥
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे ।कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः ॥ ५४ ॥
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ।प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥ ५५ ॥
अमृष्यमाणो निधनं कौरव्यजलसंधयोः ।कर्णः शोकसमाविष्टो महोरग इव श्वसन् ॥ ५६ ॥
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा ।अभ्यद्रवत वेगेन पुनः पुनररिंदमः ॥ ५७ ॥
तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत ।महता शरवर्षेण गजः प्रतिगजं यथा ॥ ५८ ॥
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ ॥ ५९ ॥
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः ।बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ॥ ६० ॥
सारथिं चास्य भल्लेन रथनीडादपाहरत् ।अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ॥ ६१ ॥
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः ।चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ ६२ ॥
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः ।वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ॥ ६३ ॥
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ।ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन ॥ ६४ ॥
तथा सात्यकिना वीरे विरथे सूतजे कृते ।हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ॥ ६५ ॥
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः ।दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ॥ ६६ ॥
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् ।कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥ ६७ ॥
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव ।दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ॥ ६८ ॥
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा ।विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥ ६९ ॥
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः ।पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥ ७० ॥
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ॥ ७१ ॥
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः ।निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥ ७२ ॥
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः ।कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ।शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ॥ ७३ ॥
धृतराष्ट्र उवाच ।अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः ।विरथं कृतवान्कर्णं वासुदेवसमो युवा ॥ ७४ ॥
दारुकेण समायुक्तं स्वबाहुबलदर्पितः ।कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ॥ ७५ ॥
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय ॥ ७६ ॥
संजय उवाच ।शृणु राजन्यथा तस्य रथमन्यं महामतिः ।दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥ ७७ ॥
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् ।तारासहस्रखचितं सिंहध्वजपताकिनम् ॥ ७८ ॥
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः ॥ ७९ ॥
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते ।घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥ ८० ॥
वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् ।रथं संपादयामास मेघगम्भीरनिस्वनम् ॥ ८१ ॥
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥ ८२ ॥
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः ।चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ॥ ८३ ॥
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् ।अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ॥ ८४ ॥
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ।एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ ८५ ॥
भूयश्चापि निबोध त्वं तवापनयजं क्षयम् ।एकत्रिंशत्तव सुता भीमसेनेन पातिताः ॥ ८६ ॥
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ।शतशो निहताः शूराः सात्वतेनार्जुनेन च ॥ ८७ ॥
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष ।एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ८८ ॥
« »