Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा गतेषु शूरेषु तेषां मम च संजय ।किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः ।अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥ २ ॥
पुनः पुनस्तूबरक मूढ औदरिकेति च ।अकृतास्त्रक मा योधीर्बाल संग्रामकातर ॥ ३ ॥
इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय ।एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ॥ ४ ॥
एतद्व्रतं महाबाहो त्वया सह कृतं मया ।यथैतन्मम कौन्तेय तथा तव न संशयः ॥ ५ ॥
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम ।यथा भवति तत्सत्यं तथा कुरु धनंजय ॥ ६ ॥
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः ।ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे ॥ ७ ॥
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत ।अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम् ॥ ८ ॥
द्विविधं कर्म शूराणां युद्धे जयपराजयौ ।तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥ ९ ॥
मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः ।यदृच्छया भीमसेनं विरथं कृतवानसि ॥ १० ॥
अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः ।युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ।पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ॥ ११ ॥
पश्यतां सर्वसैन्यानां केशवस्य ममैव च ।विरथो भीमसेनेन कृतोऽसि बहुशो रणे ।न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः ॥ १२ ॥
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः ।परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ॥ १३ ॥
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ।त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ॥ १४ ॥
तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः ।कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ॥ १५ ॥
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ।ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ।तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥ १६ ॥
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे ।दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥ १७ ॥
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु ।महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥ १८ ॥
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ॥ १९ ॥
ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम् ।तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ॥ २० ॥
दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया ।दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ॥ २१ ॥
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत ।सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥ २२ ॥
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् ।त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥ २३ ॥
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा ।समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ।ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ॥ २४ ॥
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ।नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ।यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥ २५ ॥
एवमेव हते कर्णे सानुबन्धे दुरात्मनि ।वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥ २६ ॥
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव ।प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा ॥ २७ ॥
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव ।त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ॥ २८ ॥
तवैव भारो वार्ष्णेय तवैव विजयः प्रभो ।वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥ २९ ॥
एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् ।दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥ ३० ॥
श्रीकृष्ण उवाच ।प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः ।पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥ ३१ ॥
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः ।संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ॥ ३२ ॥
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः ।सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ॥ ३३ ॥
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः ।वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम् ॥ ३४ ॥
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥ ३५ ॥
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः ।अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥ ३६ ॥
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः ।विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ॥ ३७ ॥
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः ।संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ॥ ३८ ॥
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह ।सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ॥ ३९ ॥
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् ।पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान् ॥ ४० ॥
संजय उवाच ।एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः ।स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् ॥ ४१ ॥
« »