Click on words to see what they mean.

संजय उवाच ।स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः ।युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ॥ १ ॥
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ २ ॥
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः ।संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ॥ ३ ॥
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः ।दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥ ४ ॥
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः ।मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥ ५ ॥
विसृजन्दिक्षु सर्वासु शरानसितसारथिः ।स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः ॥ ६ ॥
भ्रमन्त इव शूरस्य शरव्राता महात्मनः ।अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥ ७ ॥
आददानं महेष्वासं संदधानं च पाण्डवम् ।विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥ ८ ॥
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे ।आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ।विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥ ९ ॥
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना ।न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः ॥ १० ॥
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् ।आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ।मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि ॥ ११ ॥
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् ।अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ॥ १२ ॥
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् ।युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ।सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम् ॥ १३ ॥
स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः ।वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥ १४ ॥
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे ।अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥ १५ ॥
धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः ।अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ।शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥ १६ ॥
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः ।स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥ १७ ॥
जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् ।अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥ १८ ॥
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः ।गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ।क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥ १९ ॥
शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः ।शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि ॥ २० ॥
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम ।ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥ २१ ॥
संग्रामे युध्यमानस्य वहतो महतीं धुरम् ।धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ।तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥ २२ ॥
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥ २३ ॥
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ २४ ॥
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ २५ ॥
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥ २६ ॥
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले ।तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ २७ ॥
यथा चैतन्न जानीयात्स राजा पृथिवीपतिः ।तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ २८ ॥
न ह्यसाध्यमकार्यं वा विद्यते तव किंचन ।समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ २९ ॥
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् ।इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥ ३० ॥
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् ।विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥ ३१ ॥
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः ।शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ॥ ३२ ॥
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनंजयः ।दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥ ३३ ॥
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः ।समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ॥ ३४ ॥
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः ।संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष ॥ ३५ ॥
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ ३६ ॥
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् ।वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥ ३७ ॥
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः ।उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥ ३८ ॥
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् ।गते तस्यापि शतधा मूर्धागच्छदरिंदम ॥ ३९ ॥
ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् ।वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥ ४० ॥
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् ।पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ॥ ४१ ॥
भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम् ।सिंहनादेन महता पूरयामास रोदसी ॥ ४२ ॥
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः ।सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥ ४३ ॥
ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् ।अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया ॥ ४४ ॥
ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः ॥ ४५ ॥
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः ।सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥ ४६ ॥
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ॥ ४७ ॥
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् ।अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ॥ ४८ ॥
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्समन्तात् ।यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञां समवाप्य वीरः ॥ ४९ ॥
« »