Click on words to see what they mean.

धृतराष्ट्र उवाच ।तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे ।यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।भूरिश्रवसि संक्रान्ते परलोकाय भारत ।वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥ २ ॥
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः ।अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥ ३ ॥
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया ।कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ ४ ॥
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः ।चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ ५ ॥
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् ।हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥ ६ ॥
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ॥ ७ ॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ ८ ॥
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् ।नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन्निर्दहन्निव ॥ ९ ॥
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् ।अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ॥ १० ॥
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् ।यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व ॥ ११ ॥
अल्पावशिष्टं दिवसं नृवीर विघातयस्वाद्य रिपुं शरौघैः ।दिनक्षयं प्राप्य नरप्रवीर ध्रुवं हि नः कर्ण जयो भविष्यति ॥ १२ ॥
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति ।मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥ १३ ॥
अनर्जुनायां च भुवि मुहूर्तमपि मानद ।जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥ १४ ॥
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् ।वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥ १५ ॥
दैवेनोपहतः पार्थो विपरीतश्च मानद ।कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ॥ १६ ॥
नूनमात्मविनाशाय पाण्डवेन किरीटिना ।प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ॥ १७ ॥
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः ।अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम् ॥ १८ ॥
रक्षितं मद्रराजेन कृपेण च महात्मना ।जयद्रथं रणमुखे कथं हन्याद्धनंजयः ॥ १९ ॥
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च ।कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥ २० ॥
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः ।शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥ २१ ॥
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः ।युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥ २२ ॥
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष ।दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥ २३ ॥
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना ।भृशमुद्वेजितः संख्ये शरजालैरनेकशः ॥ २४ ॥
स्थातव्यमिति तिष्ठामि रणे संप्रति मानद ।नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः ॥ २५ ॥
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे ।यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥ २६ ॥
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् ।सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः ॥ २७ ॥
यत्तु शक्तिमता कार्यं सततं हितकारिणा ।तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥ २८ ॥
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः ।त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥ २९ ॥
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः ।पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ॥ ३० ॥
कर्णकौरवयोरेवं रणे संभाषमाणयोः ।अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥ ३१ ॥
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् ।भुजान्परिघसंकाशान्हस्तिहस्तोपमान्रणे ॥ ३२ ॥
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः ।हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ॥ ३३ ॥
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् ।क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ॥ ३४ ॥
हयवारणमुख्याश्च प्रापतन्त सहस्रशः ।ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ॥ ३५ ॥
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् ।अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥ ३६ ॥
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ ३७ ॥
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः ।स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥ ३८ ॥
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः ।नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ॥ ३९ ॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ ४० ॥
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् ।नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥ ४१ ॥
संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः ।अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥ ४२ ॥
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ ।सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ॥ ४३ ॥
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् ।मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ॥ ४४ ॥
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः ।द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ॥ ४५ ॥
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः ।शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ॥ ४६ ॥
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः ।अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ॥ ४७ ॥
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः ।महता रथवंशेन सर्वतः पर्यवारयन् ॥ ४८ ॥
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् ।सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥ ४९ ॥
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत ।इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥ ५० ॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ॥ ५१ ॥
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः ।दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥ ५२ ॥
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः ।विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ॥ ५३ ॥
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते ।सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ॥ ५४ ॥
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च ।सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ॥ ५५ ॥
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् ।धनंजयस्य गात्रेषु शूराः परिघबाहवः ॥ ५६ ॥
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ ५७ ॥
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः ।मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ ५८ ॥
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे ।सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ ५९ ॥
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष ।भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥ ६० ॥
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः ।तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥ ६१ ॥
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष ।यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ॥ ६२ ॥
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे ।सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥ ६३ ॥
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् ।शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ।तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ॥ ६४ ॥
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे ।सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः ॥ ६५ ॥
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् ।चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः ॥ ६६ ॥
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् ।अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ॥ ६७ ॥
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् ।कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ।सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ ६८ ॥
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ ।सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ।अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ॥ ६९ ॥
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन ।इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा ॥ ७० ॥
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च ।प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ॥ ७१ ॥
प्रशस्यमानौ समरे सिद्धचारणवातिकैः ।अयुध्येतां महाराज परस्परवधैषिणौ ॥ ७२ ॥
ततो दुर्योधनो राजंस्तावकानभ्यभाषत ।यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ।निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ॥ ७३ ॥
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् ।आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ।अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥ ७४ ॥
सारथिं चास्य भल्लेन रथनीडादपाहरत् ।छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥ ७५ ॥
स छाद्यमानः समरे हताश्वो हतसारथिः ।मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ ७६ ॥
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा ।अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ ७७ ॥
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः ।शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ।धनंजयं द्वादशभिराजघान शिलीमुखैः ॥ ७८ ॥
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः ।पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ॥ ७९ ॥
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः ।द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥ ८० ॥
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः ।शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ॥ ८१ ॥
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः ।सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम् ॥ ८२ ॥
अथार्जुनः सर्वतोधारमस्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् ।तं प्रत्युदीयुः कुरवः पाण्डुसूनुं रथैर्महार्हैः शरवर्षाण्यवर्षन् ॥ ८३ ॥
ततस्तु तस्मिंस्तुमुले समुत्थिते सुदारुणे भारत मोहनीये ।नामुह्यत प्राप्य स राजपुत्रः किरीटमाली विसृजन्पृषत्कान् ॥ ८४ ॥
राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान्द्वादशवर्षवृत्तान् ।गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयैः ॥ ८५ ॥
प्रदीप्तोल्कमभवच्चान्तरिक्षं देहेषु भूरीण्यपतन्वयांसि ।यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति ॥ ८६ ॥
किरीटमाली महता महायशाः शरासनेनास्य शराननीकजित् ।हयप्रवेकोत्तमनागधूर्गतान्कुरुप्रवीरानिषुभिर्न्यपातयत् ॥ ८७ ॥
गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः ।महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाभिदुद्रुवुः ॥ ८८ ॥
स तानुदीर्णान्सरथाश्ववारणान्पदातिसंघांश्च महाधनुर्धरः ।विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान् ॥ ८९ ॥
« »