Click on words to see what they mean.

धृतराष्ट्र उवाच ।अहन्यहनि मे दीप्तं यशः पतति संजय ।हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥ १ ॥
धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम् ।रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ॥ २ ॥
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः ।सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥ ३ ॥
तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् ।ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ॥ ४ ॥
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः ।चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ॥ ५ ॥
अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः ।युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ॥ ६ ॥
यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् ।एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः ॥ ७ ॥
तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् ।धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय ॥ ८ ॥
संजय उवाच ।तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् ।समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥ ९ ॥
नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः ।निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सेनाम् ॥ १० ॥
तं यान्तमश्वै रजतप्रकाशैरायोधने नरवीरं चरन्तम् ।नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥ ११ ॥
अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी ।अलम्बुसः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य ॥ १२ ॥
तयोरभूद्भारत संप्रहारस्तथागतो नैव बभूव कश्चित् ।प्रैक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे ॥ १३ ॥
अविध्यदेनं दशभिः पृषत्कैरलम्बुसो राजवरः प्रसह्य ।अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुंगवोऽपि ॥ १४ ॥
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः ।विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥ १५ ॥
तैः कायमस्याग्न्यनिलप्रभावैर्विदार्य बाणैरपरैर्ज्वलद्भिः ।आजघ्निवांस्तान्रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥ १६ ॥
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः ।अलम्बुसस्योत्तमवेगवद्भिर्हयांश्चतुर्भिर्निजघान बाणैः ॥ १७ ॥
अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसंनिभेन ।सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥ १८ ॥
निहत्य तं पार्थिवपुत्रपौत्रं संख्ये मधूनामृषभः प्रमाथी ।ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव संनिवार्य ॥ १९ ॥
अन्वागतं वृष्णिवरं समीक्ष्य तथारिमध्ये परिवर्तमानम् ।घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुरिवाभ्रपूगान् ॥ २० ॥
ततोऽवहन्सैन्धवाः साधु दान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः ।सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः ॥ २१ ॥
अथात्मजास्ते सहिताभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः ।कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥ २२ ॥
ते सर्वतः संपरिवार्य संख्ये शैनेयमाजघ्नुरनीकसाहाः ।स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥ २३ ॥
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः ।दुःशासनस्यापि जघान वाहानुद्यम्य बाणासनमाजमीढ ॥ २४ ॥
« »