Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा तु नर्दमानं तं भीमसेनं महाबलम् ।मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥ १ ॥
न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय ।क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥ २ ॥
गदामुद्यच्छमानस्य कालस्येव महामृधे ।न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥ ३ ॥
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च ।कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥ ४ ॥
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः ।दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥ ५ ॥
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् ।प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥ ६ ॥
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे ।कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥ ७ ॥
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥ ८ ॥
संजय उवाच ।तथा तु नर्दमानं तं भीमसेनं महारथम् ।तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥ ९ ॥
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः ।कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥ १० ॥
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ।रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥ ११ ॥
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे ।खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥ १२ ॥
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ।समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥ १३ ॥
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।वाहनानि महाराज बभूवुर्विमनांसि च ॥ १४ ॥
प्रादुरासन्निमित्तानि घोराणि च बहूनि च ।तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥ १५ ॥
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ।विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥ १६ ॥
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे ।सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥ १७ ॥
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ।असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ।चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥ १८ ॥
तं कर्णश्छादयामास शरव्रातैरनेकशः ।संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ १९ ॥
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥ २० ॥
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः ।विव्याध समरे भीमं भीमकर्मा महारथः ॥ २१ ॥
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥ २२ ॥
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा ।महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥ २३ ॥
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥ २४ ॥
किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।ससायकं धनुः कृत्वा भीमं विव्याध मारिष ।चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥ २५ ॥
स छाद्यमानः सहसा कर्णेन दृढधन्विना ।धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥ २६ ॥
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् ।वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥ २७ ॥
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते ।स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥ २८ ॥
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥ २९ ॥
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥ ३० ॥
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा ।शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ।गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥ ३१ ॥
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः ।अश्रूयत महाराज सर्वसैन्येषु भारत ॥ ३२ ॥
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ ।मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥ ३३ ॥
« »