Click on words to see what they mean.

संजय उवाच ।तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा ।दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥ १ ॥
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् ।सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥ २ ॥
तं मृधे वेगमास्थाय परं परमधन्विनः ।चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥ ३ ॥
स तथा संवृतो भीमः प्रहसन्निव भारत ।उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ।अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥ ४ ॥
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।घोषेण महता राजन्पूरयित्वेव मेदिनीम् ।ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥ ५ ॥
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥ ६ ॥
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष ।प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥ ७ ॥
स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः ।सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥ ८ ॥
तथा तं विप्रकुर्वाणं रथयूथपयूथपम् ।भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥ ९ ॥
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः ।अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥ १० ॥
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् ।द्रोणस्य च महाराज भीमस्य च महात्मनः ॥ ११ ॥
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥ १२ ॥
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥ १३ ॥
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥ १४ ॥
स वध्यमानः समरे रथं द्रोणस्य मारिष ।ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥ १५ ॥
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे ।रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥ १६ ॥
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥ १७ ॥
ततः स्वरथमास्थाय भीमसेनो महाबलः ।अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥ १८ ॥
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥ १९ ॥
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥ २० ॥
संत्रासयन्ननीकानि तलशब्देन मारिष ।अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥ २१ ॥
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् ।तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥ २२ ॥
सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् ।रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ २३ ॥
भीमसेनो महाराज द्रष्टुकामो धनंजयम् ।अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ २४ ॥
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् ।सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ २५ ॥
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् ।तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥ २६ ॥
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥ २७ ॥
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः ।पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥ २८ ॥
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः ।अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥ २९ ॥
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् ।धनंजयस्य च रणे जयमाशास्तवान्विभुः ॥ ३० ॥
तथा तु नर्दमाने वै भीमसेने रणोत्कटे ।स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ ३१ ॥
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ ३२ ॥
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव ।दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः ॥ ३३ ॥
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ ॥ ३४ ॥
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः ॥ ३५ ॥
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥ ३६ ॥
निवातकवचा येन देवैरपि सुदुर्जयाः ।निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥ ३७ ॥
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥ ३८ ॥
कालकेयसहस्राणि चतुर्दश महारणे ।योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥ ३९ ॥
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै ।जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥ ४० ॥
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः ।मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥ ४१ ॥
पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् ।जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः ॥ ४२ ॥
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ।अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥ ४३ ॥
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥ ४४ ॥
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ॥ ४५ ॥
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥ ४६ ॥
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले ।कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥ ४७ ॥
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति ।शेषस्य रक्षणार्थं च संधास्यति सुयोधनः ॥ ४८ ॥
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव ।कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥ ४९ ॥
« »