Click on words to see what they mean.

संजय उवाच ।व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥ १ ॥
वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे ।प्रक्षये जगतस्तीव्रे युगान्त इव भारत ॥ २ ॥
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ ३ ॥
नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः ।चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ ४ ॥
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया ।युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥ ५ ॥
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ ६ ॥
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् ।चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ।नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ॥ ७ ॥
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः ।अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ ८ ॥
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे ।शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः ॥ ९ ॥
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै ।सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः ॥ १० ॥
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ।सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ ११ ॥
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ।युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥ १२ ॥
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः ।परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ १३ ॥
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ।पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥ १४ ॥
यथैव च मम प्रीतिरर्जुने शत्रुसूदने ।तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥ १५ ॥
अतिभारे नियुक्तश्च मया शैनेयनन्दनः ।स तु मित्रोपरोधेन गौरवाच्च महाबलः ।प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥ १६ ॥
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥ १७ ॥
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे ।तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ।गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ १८ ॥
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन ।शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ।स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥ १९ ॥
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः ।वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥ २० ॥
इतो गते भीमसेने सात्वतं प्रति पाण्डवे ।सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥ २१ ॥
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ ।रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ॥ २२ ॥
अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ।ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ २३ ॥
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः ।यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ॥ २४ ॥
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ।रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥ २५ ॥
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् ।कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ॥ २६ ॥
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् ।तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥ २७ ॥
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ।नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ॥ २८ ॥
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः ।उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ २९ ॥
न ह्यसाध्यमकार्यं वा विद्यते मम मानद ।आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥ ३० ॥
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ।भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ ३१ ॥
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते ।प्रेरितो वासुदेवेन संरब्धेन यशस्विना ।नूनमद्य हतः शेते तव भ्राता धनंजयः ॥ ३२ ॥
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ।यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥ ३३ ॥
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ।स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥ ३४ ॥
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ।श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ॥ ३५ ॥
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः ।चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ॥ ३६ ॥
तदिदं मम भद्रं ते शोकस्थानमरिंदम ।अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ॥ ३७ ॥
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ।तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥ ३८ ॥
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ।स तं महारथं पश्चादनुयातस्तवानुजम् ।तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥ ३९ ॥
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ।यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ॥ ४० ॥
स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः ।सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥ ४१ ॥
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ।चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ।पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥ ४२ ॥
भीमसेन उवाच ।ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः ।तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ ४३ ॥
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः ।समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥ ४४ ॥
संजय उवाच ।एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् ।धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ।धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ ४५ ॥
विदितं ते महाबाहो यथा द्रोणो महारथः ।ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ ४६ ॥
न च मे गमने कृत्यं तादृक्पार्षत विद्यते ।यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ ४७ ॥
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे ।प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ।धर्मराजस्य वचने स्थातव्यमविशङ्कया ॥ ४८ ॥
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् ।एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥ ४९ ॥
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् ।ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ॥ ५० ॥
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन ।निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ ५१ ॥
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः ।अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥ ५२ ॥
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत ।आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥ ५३ ॥
भीमसेनो महाबाहुः कवची शुभकुण्डली ।साङ्गदः सतनुत्राणः सशरी रथिनां वरः ॥ ५४ ॥
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् ।विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ॥ ५५ ॥
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः ।कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥ ५६ ॥
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया ।पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ॥ ५७ ॥
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ।पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ॥ ५८ ॥
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ।पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥ ५९ ॥
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ।कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥ ६० ॥
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् ।द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ॥ ६१ ॥
स भीमस्त्वरया युक्तो याहि यत्र धनंजयः ।मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया ।दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ॥ ६२ ॥
गच्छ गच्छेति च पुनर्भीमसेनमभाषत ।भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः ।आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥ ६३ ॥
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः ।दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ॥ ६४ ॥
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः ।विशोकेनाभिसंयत्ता मनोमारुतरंहसः ॥ ६५ ॥
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना ।सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥ ६६ ॥
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः ।पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥ ६७ ॥
तं ससेना महाराज सोदर्याः पर्यवारयन् ।दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥ ६८ ॥
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा ।विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥ ६९ ॥
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः ।अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥ ७० ॥
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः ।संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ॥ ७१ ॥
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी ।अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥ ७२ ॥
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् ।वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥ ७३ ॥
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् ।अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥ ७४ ॥
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः ।दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥ ७५ ॥
त्रासिताः शरभस्येव गर्जितेन वने मृगाः ।प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ॥ ७६ ॥
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् ।तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ ७७ ॥
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव ।ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ ७८ ॥
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा ।भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ ७९ ॥
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् ।मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥ ८० ॥
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम ।अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ॥ ८१ ॥
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः ।क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ ८२ ॥
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् ।प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥ ८३ ॥
येन वै परमां पूजां कुर्वता मानितो ह्यसि ।नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥ ८४ ॥
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् ।इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ ८५ ॥
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते ।यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ।एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥ ८६ ॥
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः ।द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥ ८७ ॥
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ।प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥ ८८ ॥
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् ।अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ॥ ८९ ॥
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी ।अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥ ९० ॥
ते वध्यमानाः समरे तव पुत्रा महारथाः ।भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ॥ ९१ ॥
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् ।सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥ ९२ ॥
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् ।द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥ ९३ ॥
अथान्यैर्निशितैर्बाणैः संक्रुद्धः कुण्डभेदिनम् ।सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥ ९४ ॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥ ९५ ॥
अभयं रौद्रकर्माणं दुर्विमोचनमेव च ।त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥ ९६ ॥
वध्यमाना महाराज पुत्रास्तव बलीयसा ।भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥ ९७ ॥
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् ।प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥ ९८ ॥
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ ।विव्याध समरे तूर्णं स पपात ममार च ॥ ९९ ॥
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः ।दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ॥ १०० ॥
ततो वै रथघोषेण गर्जितेन मृगा इव ।वध्यमानाश्च समरे पुत्रास्तव विशां पते ।प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ॥ १०१ ॥
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् ।विव्याध समरे राजन्कौरवेयान्समन्ततः ॥ १०२ ॥
वध्यमाना महाराज भीमसेनेन तावकाः ।त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ॥ १०३ ॥
तांस्तु निर्जित्य समरे भीमसेनो महाबलः ।सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥ १०४ ॥
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः ।व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥ १०५ ॥
« »