Click on words to see what they mean.

संजय उवाच ।अपराह्णे महाराज संग्रामः समपद्यत ।पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥ १ ॥
शोणाश्वं रथमास्थाय नरवीरः समाहितः ।समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥ २ ॥
तव प्रियहिते युक्तो महेष्वासो महाबलः ।चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः ॥ ३ ॥
वरान्वरान्हि योधानां विचिन्वन्निव भारत ।अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥ ४ ॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥ ५ ॥
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् ।महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥ ६ ॥
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् ।प्रेषयामास संक्रुद्धः सायकान्दश सप्त च ॥ ७ ॥
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् ।एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥ ८ ॥
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः ।प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥ ९ ॥
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् ।अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥ १० ॥
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ ११ ॥
ततो द्रोणो महाराज केकयं वै विशेषयन् ।प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥ १२ ॥
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः ।ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥ १३ ॥
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे ।विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥ १४ ॥
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् ।स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥ १५ ॥
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥ १६ ॥
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् ।क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥ १७ ॥
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥ १८ ॥
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष ।असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥ १९ ॥
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥ २० ॥
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे ।रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत् ॥ २१ ॥
बृहत्क्षत्रे हते राजन्केकयानां महारथे ।शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् ॥ २२ ॥
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥ २३ ॥
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥ २४ ॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।सहसा प्रापतद्द्रोणं पतंग इव पावकम् ॥ २५ ॥
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् ।पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥ २६ ॥
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह ।चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥ २७ ॥
अथान्यद्धनुरादाय शैशुपालिर्महारथः ।विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥ २८ ॥
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः ।अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥ २९ ॥
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे ।गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति ॥ ३० ॥
तामापतन्तीं सहसा घोररूपां भयावहाम् ।अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥ ३१ ॥
सा पपात गदा भूमौ भारद्वाजेन सादिता ।रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥ ३२ ॥
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥ ३३ ॥
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे ।शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥ ३४ ॥
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः ।प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥ ३५ ॥
स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥ ३६ ॥
पतंगं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः ।तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥ ३७ ॥
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥ ३८ ॥
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् ।महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥ ३९ ॥
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥ ४० ॥
स तु द्रोणं महाराज छादयन्सायकैः शितैः ।अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥ ४१ ॥
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥ ४२ ॥
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् ।जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥ ४३ ॥
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः ।आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥ ४४ ॥
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे ।शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥ ४५ ॥
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥ ४६ ॥
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥ ४७ ॥
ततो निष्टानको घोरः पाण्डवानामजायत ।द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ ४८ ॥
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे ।ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥ ४९ ॥
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा ।अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥ ५० ॥
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ।यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ।निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥ ५१ ॥
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥ ५२ ॥
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत ।पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥ ५३ ॥
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति ।दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥ ५४ ॥
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥ ५५ ॥
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥ ५६ ॥
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः ।बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥ ५७ ॥
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः ।मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥ ५८ ॥
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥ ५९ ॥
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ।अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥ ६० ॥
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् ।आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥ ६१ ॥
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ।स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥ ६२ ॥
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ।अथ द्रोणं समारोहच्चेकितानो महारथः ॥ ६३ ॥
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ ६४ ॥
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् ।ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥ ६५ ॥
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ।समरे शरसंवीता भारद्वाजेन मारिष ॥ ६६ ॥
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् ।पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥ ६७ ॥
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥ ६८ ॥
आकर्णपलितः श्यामो वयसाशीतिकात्परः ।रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ ६९ ॥
अथ द्रोणं महाराज विचरन्तमभीतवत् ।वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥ ७० ॥
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप ।लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥ ७१ ॥
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥ ७२ ॥
शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥ ७३ ॥
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ ७४ ॥
« »