Click on words to see what they mean.

धृतराष्ट्र उवाच ।किं तस्यां मम सेनायां नासन्केचिन्महारथाः ।ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥ १ ॥
एको हि समरे कर्म कृतवान्सत्यविक्रमः ।शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥ २ ॥
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः ।एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ॥ ३ ॥
कथं च युध्यमानानामपक्रान्तो महात्मनाम् ।एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय ॥ ४ ॥
संजय उवाच ।राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् ।तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥ ५ ॥
आह्णिकेषु समूहेषु तव सैन्यस्य मानद ।नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥ ६ ॥
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः ।एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥ ७ ॥
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते ।यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥ ८ ॥
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः ।रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥ ९ ॥
पार्थिवानां समेतानां बहून्यासन्नरोत्तम ।त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥ १० ॥
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् ।तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ॥ ११ ॥
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष ।नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥ १२ ॥
आगच्छत प्रहरत बलवत्परिधावत ।प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥ १३ ॥
यथा सुखेन गच्छेतां जयद्रथवधं प्रति ।तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ।तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥ १४ ॥
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् ।क्षोभयध्वं महावेगाः पवनाः सागरं यथा ॥ १५ ॥
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः ।आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान् ॥ १६ ॥
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ।स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ॥ १७ ॥
तथैव तावका राजन्प्रार्थयन्तो महद्यशः ।आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ॥ १८ ॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥ १९ ॥
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः ।दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ॥ २० ॥
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः ।दुर्योधनो महाराज व्यगाहत महद्बलम् ॥ २१ ॥
स संनिपातस्तुमुलस्तेषां तस्य च भारत ।अभवत्सर्वसैन्यानामभावकरणो महान् ॥ २२ ॥
धृतराष्ट्र उवाच ।तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ २३ ॥
एकस्य च बहूनां च संनिपातो महाहवे ।विशेषतो नृपतिना विषमः प्रतिभाति मे ॥ २४ ॥
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ।एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ २५ ॥
संजय उवाच ।राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत ।एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ॥ २६ ॥
दुर्योधनेन सहसा पाण्डवी पृतना रणे ।नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ॥ २७ ॥
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव ।भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥ २८ ॥
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ २९ ॥
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः ।केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ३० ॥
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे ।शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ ३१ ॥
न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः ।अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ॥ ३२ ॥
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः ।भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ ३३ ॥
विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः ।वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ॥ ३४ ॥
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ।यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥ ३५ ॥
अथ दुर्योधनो राजा दृढमादाय कार्मुकम् ।तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ ३६ ॥
तं तथा वादिनं राजंस्तव पुत्रं महारथम् ।प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ॥ ३७ ॥
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् ।चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ॥ ३८ ॥
तत्र राजन्महानासीत्संग्रामो भूरिवर्धनः ।रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम् ॥ ३९ ॥
« »