Click on words to see what they mean.

जनमेजय उवाच ।तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् ।हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥ १ ॥
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः ।किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥ २ ॥
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः ।पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥ ३ ॥
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् ।यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥ ४ ॥
वैशंपायन उवाच ।निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥ ५ ॥
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ ६ ॥
शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् ।आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥ ७ ॥
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥ ८ ॥
धृतराष्ट्र उवाच ।संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् ।किमकार्षुः परं तात कुरवः कालचोदिताः ॥ ९ ॥
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि ।किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥ १० ॥
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय ।भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥ ११ ॥
देवव्रते तु निहते कुरूणामृषभे तदा ।यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय ॥ १२ ॥
संजय उवाच ।शृणु राजन्नेकमना वचनं ब्रुवतो मम ।यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥ १३ ॥
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे ।तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥ १४ ॥
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते ।स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥ १५ ॥
शयनं कल्पयामासुर्भीष्मायामिततेजसे ।सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥ १६ ॥
विधाय रक्षां भीष्माय समाभाष्य परस्परम् ।अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥ १७ ॥
क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् ।पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥ १८ ॥
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः ।तावकानामनीकानि परेषां चापि निर्ययुः ॥ १९ ॥
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते ।अमर्षवशमापन्नाः कालोपहतचेतसः ॥ २० ॥
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः ।निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ॥ २१ ॥
मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च ।कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ॥ २२ ॥
अजावय इवागोपा वने श्वापदसंकुले ।भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥ २३ ॥
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी ।द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥ २४ ॥
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा ।आसुरीव यथा सेना निगृहीते पुरा बलौ ॥ २५ ॥
विधवेव वरारोहा शुष्कतोयेव निम्नगा ।वृकैरिव वने रुद्धा पृषती हतयूथपा ॥ २६ ॥
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा ।भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥ २७ ॥
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे ।बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥ २८ ॥
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥ २९ ॥
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः ।पाताल इव मज्जन्तो हीना देवव्रतेन ते ।कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥ ३० ॥
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् ।बन्धुमापद्गतस्येव तमेवोपागमन्मनः ॥ ३१ ॥
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः ।राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥ ३२ ॥
स हि नायुध्यत तदा दशाहानि महायशाः ।सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥ ३३ ॥
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः ।रथेषु गण्यमानेषु बलविक्रमशालिषु ।संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥ ३४ ॥
रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः ।पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥ ३५ ॥
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् ।त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन ॥ ३६ ॥
त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥ ३७ ॥
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि ।हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥ ३८ ॥
एवमुक्त्वा महाराज दशाहानि महायशाः ।नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥ ३९ ॥
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव ।जघान समरे योधानसंख्येयपराक्रमः ॥ ४० ॥
तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि ।त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥ ४१ ॥
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः ।हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥ ४२ ॥
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥ ४३ ॥
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् ।त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥ ४४ ॥
वैशंपायन उवाच ।तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः ।आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥ ४५ ॥
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥ ४६ ॥
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः ।संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥ ४७ ॥
अपि तत्पूरयां चक्रे धनुर्धरवरो युधि ।यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥ ४८ ॥
तत्खण्डं पूरयामास परेषामादधद्भयम् ।कृतवान्मम पुत्राणां जयाशां सफलामपि ॥ ४९ ॥
« »