Click on words to see what they mean.

संजय उवाच ।हतं भीष्ममाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् ।सोदर्यवद्व्यसनात्सूतपुत्रः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥ १ ॥
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शांतनवं महारथम् ।अथोपायात्तूर्णममित्रकर्शनो धनुर्धराणां प्रवरस्तदा वृषः ॥ २ ॥
हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् ।पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥ ३ ॥
कर्ण उवाच ।यस्मिन्धृतिर्बुद्धिपराक्रमौजो दमः सत्यं वीरगुणाश्च सर्वे ।अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनपायीनि भीष्मे ॥ ४ ॥
ब्रह्मद्विषघ्ने सततं कृतज्ञे सनातनं चन्द्रमसीव लक्ष्म ।स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव हि सर्वयोधान् ॥ ५ ॥
नेह ध्रुवं किंचन जातु विद्यते अस्मिँल्लोके कर्मणोऽनित्ययोगात् ।सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते ॥ ६ ॥
वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे ।वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥ ७ ॥
संजय उवाच ।महाप्रभावे वरदे निपातिते लोकश्रेष्ठे शांतनवे महौजसि ।पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥ ८ ॥
इदं तु राधेयवचो निशम्य ते सुताश्च राजंस्तव सैनिकाश्च ह ।परस्परं चुक्रुशुरार्तिजं भृशं तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥ ९ ॥
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः ।अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः ॥ १० ॥
कर्ण उवाच ।जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुंगवः कथम् ॥ ११ ॥
निपातिते शांतनवे महारथे दिवाकरे भूतलमास्थिते यथा ।न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥ १२ ॥
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै ।मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा ॥ १३ ॥
समाहितं चात्मनि भारमीदृशं जगत्तथानित्यमिदं च लक्षये ।निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम् ॥ १४ ॥
अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेरयन्यमसदनं रणे चरन् ।यशः परं जगति विभाव्य वर्तिता परैर्हतो युधि शयिताथ वा पुनः ॥ १५ ॥
युधिष्ठिरो धृतिमतिधर्मतत्त्ववान्वृकोदरो गजशततुल्यविक्रमः ।तथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमथामरैरपि ॥ १६ ॥
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः ।न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत् ॥ १७ ॥
तपोऽभ्युदीर्णं तपसैव गम्यते बलं बलेनापि तथा मनस्विभिः ।मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥ १८ ॥
एवं चैषां बुध्यमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत ।मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः सहायः स मित्रम् ॥ १९ ॥
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् ।सर्वान्संख्ये शत्रुसंघान्हनिष्ये हतस्तैर्वा वीरलोकं गमिष्ये ॥ २० ॥
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।मया कृत्यमिति जानामि सूत तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥ २१ ॥
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् ।सर्वान्संख्ये शत्रुसंघान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥ २२ ॥
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि ।शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चापि विषाहिकल्पान् ॥ २३ ॥
उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि तथाहरन्तु ।असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रभासम् ॥ २४ ॥
एतां रौक्मीं नागकक्ष्यां च जैत्रीं जैत्रं च मे ध्वजमिन्दीवराभम् ।श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां चात्र बद्ध्वा सजालाम् ॥ २५ ॥
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः ।तप्तैर्भाण्डैः काञ्चनैरभ्युपेताञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥ २६ ॥
रथं चाग्र्यं हेमजालावनद्धं रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः ।द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व ॥ २७ ॥
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः संहननोपपन्नाः ।तूणांश्च पूर्णान्महतः शराणामासज्य गात्रावरणानि चैव ॥ २८ ॥
प्रायात्रिकं चानयताशु सर्वं कन्याः पूर्णं वीरकांस्यं च हैमम् ।आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥ २९ ॥
प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च ।तान्वा हनिष्यामि समेत्य संख्ये भीष्माय वैष्यामि हतो द्विषद्भिः ॥ ३० ॥
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च ।वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः ॥ ३१ ॥
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाप्रमत्तः समरे किरीटिनम् ।तथापि हन्तास्मि समेत्य संख्ये यास्यामि वा भीष्मपथा यमाय ॥ ३२ ॥
न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्तथाहं ब्रवीमि ।मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥ ३३ ॥
संजय उवाच ।स सिद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥ ३४ ॥
संपूज्यमानः कुरुभिर्महात्मा रथर्षभः पाण्डुरवाजियाता ।ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥ ३५ ॥
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिवज्रशालिना ।सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥ ३६ ॥
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः ।स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिव स्थितः ॥ ३७ ॥
« »