Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं द्रोणो महेष्वासः पाण्डवश्च धनंजयः ।समीयतू रणे शूरौ तन्ममाचक्ष्व संजय ॥ १ ॥
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय ॥ २ ॥
तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ ।कथं समीयतुर्युद्धे भारद्वाजधनंजयौ ॥ ३ ॥
संजय उवाच ।न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ ४ ॥
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ ५ ॥
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ॥ ६ ॥
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ॥ ७ ॥
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः ।वारयामास राजेन्द्र नचिरादिव भारत ॥ ८ ॥
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ ९ ॥
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।छादयामास समरे पार्थं बाणैरयोमुखैः ॥ १० ॥
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।हंसा इव महाराज शरत्काले नभस्तले ॥ ११ ॥
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो ।फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥ १२ ॥
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ १३ ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ १४ ॥
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः ।प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥ १५ ॥
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ॥ १६ ॥
यदेको वारयामास मारुतोऽभ्रगणानिव ।कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ १७ ॥
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत ।मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ १८ ॥
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ १९ ॥
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ।शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ २० ॥
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे ।प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ॥ २१ ॥
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ २२ ॥
ततो दुर्योधनो राजा कृपश्च रथिनां वरः ।अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ॥ २३ ॥
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः ।महता रथवंशेन पार्थस्यावारयन्दिशः ॥ २४ ॥
तथैव भगदत्तश्च श्रुतायुश्च महाबलः ।गजानीकेन भीमस्य ताववारयतां दिशः ॥ २५ ॥
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते ।शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ॥ २६ ॥
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः ।युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ २७ ॥
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ।लेलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ २८ ॥
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ॥ २९ ॥
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ ३० ॥
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत ।मेघजालस्य महतो यथा मध्यगतो रविः ॥ ३१ ॥
व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।महाभ्रजालमतुलं मातरिश्वेव संततम् ॥ ३२ ॥
ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ ३३ ॥
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ ३४ ॥
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ।विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ।पातयामास समरे दण्डहस्त इवान्तकः ॥ ३५ ॥
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः ।कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ ३६ ॥
एवं ते वध्यमानास्तु हतशेषा महागजाः ।प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ॥ ३७ ॥
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३८ ॥
« »