Click on words to see what they mean.

धृतराष्ट्र उवाच ।आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् ।अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय ॥ १ ॥
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा ।तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ॥ २ ॥
धनंजयश्च किं चक्रे मम सैन्येषु संजय ।भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ ३ ॥
नकुलः सहदेवो वा सात्यकिर्वा महारथः ।एतदाचक्ष्व मे सर्वं कुशलो ह्यसि संजय ॥ ४ ॥
संजय उवाच ।हन्त तेऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम् ।यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ ५ ॥
अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥ ६ ॥
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः ।अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥ ७ ॥
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः ।आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥ ९ ॥
ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ ।रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ।मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥ १० ॥
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ११ ॥
अलम्बुसोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः ।हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥ १२ ॥
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।अर्जुनस्य सुतं संख्ये पीडयामास भारत ॥ १३ ॥
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् ।चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥ १४ ॥
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि ।स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥ १५ ॥
स धारयञ्शरान्हेमपुङ्खानपि महाबलः ।विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥ १६ ॥
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः ।महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ॥ १७ ॥
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ १८ ॥
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः ।अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥ १९ ॥
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः ।चक्रे विमुखमासाद्य मयं शक्र इवाहवे ॥ २० ॥
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा ।प्रादुश्चक्रे महामायां तामसीं परतापनः ॥ २१ ॥
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले ।नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥ २२ ॥
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः ।प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥ २३ ॥
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥ २४ ॥
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।छादयामास समरे शरैः संनतपर्वभिः ॥ २५ ॥
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा ।सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥ २६ ॥
हतमायं ततो रक्षो वध्यमानं च सायकैः ।रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् ॥ २७ ॥
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ २८ ॥
ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् ।महता रथवंशेन सौभद्रं पर्यवारयत् ॥ २९ ॥
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः ।एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ ३० ॥
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ ३१ ॥
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ ३२ ॥
ततो धनंजयो राजन्विनिघ्नंस्तव सैनिकान् ।आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ ३३ ॥
तथैव समरे राजन्पिता देवव्रतस्तव ।आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ ३४ ॥
ततः सरथनागाश्वाः पुत्रास्तव विशां पते ।परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ ३५ ॥
तथैव पाण्डवा राजन्परिवार्य धनंजयम् ।रणाय महते युक्ता दंशिता भरतर्षभ ॥ ३६ ॥
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ ३७ ॥
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ ३८ ॥
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥ ३९ ॥
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः ।गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥ ४० ॥
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥ ४१ ॥
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् ।अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ ४२ ॥
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत ।अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ ४३ ॥
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ ४४ ॥
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥ ४५ ॥
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥ ४६ ॥
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ ४७ ॥
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् ।चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ॥ ४८ ॥
पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ ४९ ॥
सात्यकिश्च महाराज शरजालं निहत्य तत् ।द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥ ५० ॥
तापयामास च द्रौणिं शैनेयः परवीरहा ।विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ ५१ ॥
शराणां च सहस्रेण पुनरेनं समुद्यतम् ।सात्यकिश्छादयामास ननाद च महाबलः ॥ ५२ ॥
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् ।अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ ५३ ॥
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे ।परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥ ५४ ॥
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् ।द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ ५५ ॥
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः ।अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ ५६ ॥
ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ५७ ॥
« »