Click on words to see what they mean.

संजय उवाच ।स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥ १ ॥
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।महता शरवर्षेण पाण्डवं समवाकिरत् ॥ २ ॥
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् ।भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ ३ ॥
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः ।संदधे निशितं बाणं गिरीणामपि दारणम् ।तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥ ४ ॥
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् ।समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥ ५ ॥
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ।क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥ ६ ॥
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः ।समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥ ७ ॥
संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् ।भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥ ८ ॥
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥ ९ ॥
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ।भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥ १० ॥
नानाविधानि शस्त्राणि विसृजन्तो जये रताः ।नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥ ११ ॥
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः ।तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥ १२ ॥
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ।चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ १३ ॥
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥ १४ ॥
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् ।भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ १५ ॥
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।पर्वतं वारिधाराभिः शरदीव बलाहकः ॥ १६ ॥
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ १७ ॥
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥ १८ ॥
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥ १९ ॥
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥ २० ॥
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः ।समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥ २१ ॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ २२ ॥
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ २३ ॥
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ २४ ॥
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥ २५ ॥
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ।अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ २६ ॥
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ।स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥ २७ ॥
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ।यथा शक्रो महाराज पुरा विव्याध दानवम् ॥ २८ ॥
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ।येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥ २९ ॥
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा ।संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥ ३० ॥
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ।दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥ ३१ ॥
ततः संधाय विमलान्भल्लान्कर्मारपायितान् ।जघान चतुरो वाहान्पातयामास च ध्वजम् ॥ ३२ ॥
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ।स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ ३३ ॥
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् ।घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥ ३४ ॥
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ ३५ ॥
तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् ।अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥ ३६ ॥
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् ।येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥ ३७ ॥
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ।अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥ ३८ ॥
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् ।मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥ ३९ ॥
ततस्ते तावकाः सर्वे मायया विमुखीकृताः ।अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ।विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥ ४० ॥
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥ ४१ ॥
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः ।हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥ ४२ ॥
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ ४३ ॥
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ।नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥ ४४ ॥
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ।घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥ ४५ ॥
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना ।सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ४६ ॥
« »