Click on words to see what they mean.

संजय उवाच ।विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः ।जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ १ ॥
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः ॥ २ ॥
तालमात्राणि चापानि विकर्षन्तो महाबलाः ।तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् ॥ ३ ॥
अथैनं शरवर्षेण समन्तात्पर्यवारयन् ।पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥ ४ ॥
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः ।उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥ ५ ॥
व्यनदत्सुमहानादं जीमूत इव शारदः ।दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥ ६ ॥
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥ ७ ॥
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।अतिभारं च पश्यामि तत्र तात समाहितम् ॥ ८ ॥
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ।तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥ ९ ॥
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् ।गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥ १० ॥
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ।प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।वेगेन महता राजन्पर्वकाले यथोदधिः ॥ ११ ॥
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ १२ ॥
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥ १३ ॥
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ १४ ॥
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः ।अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ १५ ॥
सिंहनादेन महता नेमिघोषेण चैव हि ।खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् ॥ १६ ॥
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥ १७ ॥
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् ।तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ॥ १८ ॥
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ १९ ॥
हया गजैः समाजग्मुः पादाता रथिभिः सह ।अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥ २० ॥
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः ।रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥ २१ ॥
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् ।नैव स्वे न परे राजन्समजानन्परस्परम् ॥ २२ ॥
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥ २३ ॥
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् ।सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥ २४ ॥
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी ।प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥ २५ ॥
नराणां चैव कायेभ्यः शिरसां पततां रणे ।शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥ २६ ॥
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा ॥ २७ ॥
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ॥ २८ ॥
हया हयान्समासाद्य प्रेषिता हयसादिभिः ।समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ २९ ॥
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ ३० ॥
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः ।अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥ ३१ ॥
ते जातरुधिरापीडाः पताकाभिरलंकृताः ।संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ ३२ ॥
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥ ३३ ॥
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे ।निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ ३४ ॥
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ ३५ ॥
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥ ३६ ॥
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥ ३७ ॥
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ ३८ ॥
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः ।परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ ३९ ॥
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ ४० ॥
तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे ।धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥ ४१ ॥
« »