Click on words to see what they mean.

संजय उवाच ।तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा ।गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥ १ ॥
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे ।घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ २ ॥
कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः ।अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ ३ ॥
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः ।पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ ४ ॥
एकादश समाख्याता अक्षौहिण्यश्च या मम ।निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ ५ ॥
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ ६ ॥
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥ ७ ॥
राक्षसापसदं हन्तुं स्वयमेव पितामह ।त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ ८ ॥
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम ।दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ ९ ॥
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव ।यथा त्वया महाराज वर्तितव्यं परंतप ॥ १० ॥
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम ।धर्मराजेन संग्रामस्त्वया कार्यः सदानघ ॥ ११ ॥
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ॥ १२ ॥
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः ।शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ॥ १३ ॥
तव च भ्रातरः शूरा दुःशासनपुरोगमाः ।त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ १४ ॥
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् ।अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ।भगदत्तो महीपालः पुरंदरसमो युधि ॥ १५ ॥
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ।समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥ १६ ॥
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ।वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ १७ ॥
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।समागमश्च बहुभिः पुराभूदसुरैः सह ॥ १८ ॥
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे ।स्वबलेन वृतो राजञ्जहि राक्षसपुंगवम् ॥ १९ ॥
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः ।प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥ २० ॥
तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ २१ ॥
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ॥ २२ ॥
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ २३ ॥
ततः समभवद्युद्धं घोररूपं भयानकम् ।पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ २४ ॥
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।ते निपेतुर्महाराज नागेषु च रथेषु च ॥ २५ ॥
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।परस्परं समासाद्य संनिपेतुरभीतवत् ॥ २६ ॥
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ २७ ॥
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ॥ २८ ॥
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः ।न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ २९ ॥
रथिनश्च तथा राजन्कर्णिनालीकसायकैः ।निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ ३० ॥
तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे ।भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ ३१ ॥
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् ।पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ॥ ३२ ॥
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः ।ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ ३३ ॥
स भीमं शरधाराभिस्ताडयामास पार्थिवः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ३४ ॥
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् ।निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः ॥ ३५ ॥
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ ३६ ॥
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा ।अभ्यधावत वेगेन भीमसेनमरिंदमम् ॥ ३७ ॥
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः ।अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ ३८ ॥
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः ।दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ।चेदिपश्चित्रकेतुश्च संक्रुद्धाः सर्व एव ते ॥ ३९ ॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ।तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ॥ ४० ॥
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ।संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ॥ ४१ ॥
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् ।समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ॥ ४२ ॥
तमापतन्तं समरे गजं गजपतिः स च ।दधार सुप्रतीकोऽपि वेलेव मकरालयम् ॥ ४३ ॥
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ।साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ॥ ४४ ॥
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ।प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ॥ ४५ ॥
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् ।विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ॥ ४६ ॥
स गाढविद्धो व्यथितो नागो भरतसत्तम ।उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ॥ ४७ ॥
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् ।स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ॥ ४८ ॥
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ।सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ॥ ४९ ॥
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ।किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ॥ ५० ॥
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ।श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ।भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ ५१ ॥
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि ।तस्मिन्क्षणे समभवत्संवर्तक इवानलः ॥ ५२ ॥
रथसंघांस्तथा नागान्हयांश्च सह सादिभिः ।पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः ।अमृद्नात्समरे राजन्संप्रधावंस्ततस्ततः ॥ ५३ ॥
तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् ।संचुकोच महाराज चर्मेवाग्नौ समाहितम् ॥ ५४ ॥
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ।घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत् ॥ ५५ ॥
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः ।रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ॥ ५६ ॥
जग्राह विपुलं शूलं गिरीणामपि दारणम् ।नागं जिघांसुः सहसा चिक्षेप च महाबलः ।सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ॥ ५७ ॥
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे ।चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ।चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ॥ ५८ ॥
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् ।महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ॥ ५९ ॥
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः ।रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ।चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६० ॥
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ ६१ ॥
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत ।पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ ६२ ॥
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा ।दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ ६३ ॥
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः ।साधु साध्विति नादेन पृथिवीमनुनादयन् ॥ ६४ ॥
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ ६५ ॥
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् ।अभिदुद्राव वेगेन पाण्डवानां महारथान् ।विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ॥ ६६ ॥
भीममेकेन विव्याध राक्षसं नवभिः शरैः ।अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ॥ ६७ ॥
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा ।बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ।पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ ६८ ॥
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥ ६९ ॥
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ ७० ॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ ७१ ॥
ततो भीमो महाराज विरथो रथिनां वरः ।गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ॥ ७२ ॥
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।तावकानां भयं घोरं समपद्यत भारत ॥ ७३ ॥
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ॥ ७४ ॥
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ ।प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ॥ ७५ ॥
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् ।त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ॥ ७६ ॥
ततो दुर्योधनो राजा त्वरमाणो महारथः ।सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥ ७७ ॥
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ ७८ ॥
भगदत्तोऽपि समरे तेन नागेन भारत ।विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ ७९ ॥
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष ।पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ॥ ८० ॥
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ ।आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ॥ ८१ ॥
« »