Click on words to see what they mean.

संजय उवाच ।परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः ।कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ १ ॥
ततः शब्दो महानासीत्सेनयोरुभयोरपि ।निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् ॥ २ ॥
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः ।भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ ३ ॥
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः ।व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ॥ ४ ॥
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते ।सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ ५ ॥
अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ ।मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ ६ ॥
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् ।पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ ७ ॥
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ॥ ८ ॥
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ॥ ९ ॥
बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः ।काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ १० ॥
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत ।प्रययौ सिंहनादेन नादयानो धरातलम् ॥ ११ ॥
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा ।द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ १२ ॥
दुर्योधनादनु कृपस्ततः शारद्वतो ययौ ।एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ १३ ॥
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो ।अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ॥ १४ ॥
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ १५ ॥
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ॥ १६ ॥
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् ।शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ १७ ॥
शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः ।रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ १८ ॥
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः ।मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ १९ ॥
अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ २० ॥
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः ।द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥ २१ ॥
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ २२ ॥
भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः ।क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ॥ २३ ॥
ततः शूराः समासाद्य समरे ते परस्परम् ।नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ॥ २४ ॥
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् ।युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥ २५ ॥
ततः प्रववृते युद्धं घोररूपं भयावहम् ।तावकानां परेषां च निघ्नतामितरेतरम् ॥ २६ ॥
नाराचा निशिताः संख्ये संपतन्ति स्म भारत ।व्यात्तानना भयकरा उरगा इव संघशः ॥ २७ ॥
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ २८ ॥
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः ।पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ।निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ॥ २९ ॥
आर्षभाणि च चर्माणि शतचन्द्राणि भारत ।अशोभन्त रणे राजन्पतमानानि सर्वशः ॥ ३० ॥
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ।अशोभेतां यथा दैत्यदेवसेने समुद्यते ।अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ ३१ ॥
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे ।युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ ३२ ॥
दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥ ३३ ॥
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ ३४ ॥
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् ।चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ ३५ ॥
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ ३६ ॥
ततः शांतनवो भीष्मो रथघोषेण नादयन् ।अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ॥ ३७ ॥
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् ।अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ ३८ ॥
ततः प्रववृते युद्धं तव तेषां च भारत ।नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ३९ ॥
« »