Click on words to see what they mean.

संजय उवाच ।भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ १ ॥
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ २ ॥
स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् ।पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ ३ ॥
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ ४ ॥
स तेषां रथिनां वीरो भीष्मः शांतनवो युधि ।चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ ५ ॥
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव ।पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ ६ ॥
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ॥ ७ ॥
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते ।अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ॥ ८ ॥
स हि भीष्मं समासाद्य ताडयामास संयुगे ।ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ ९ ॥
बभूव सर्वसैन्यानां घोररूपो भयानकः ।तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ १० ॥
ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ ११ ॥
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ।सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ॥ १२ ॥
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ।हते तस्मिन्महाराज तव पुत्रे महारथे ।नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे ॥ १३ ॥
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ १४ ॥
पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः ।अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥ १५ ॥
महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।नवभिर्वज्रसंकाशैर्नमुचिं वृत्रहा यथा ॥ १६ ॥
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ॥ १७ ॥
अपराजितो महाराज पराजिष्णुर्महारथः ।शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् ॥ १८ ॥
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् ।स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ॥ १९ ॥
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।शिरश्चिच्छेद समरे शरेण नतपर्वणा ॥ २० ॥
अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।पराजितस्य भीमेन निपपात शिरो महीम् ॥ २१ ॥
अथापरेण भल्लेन कुण्डधारं महारथम् ।प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ २२ ॥
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।प्रेषयामास समरे पण्डितं प्रति भारत ॥ २३ ॥
स शरः पण्डितं हत्वा विवेश धरणीतलम् ।यथा नरं निहत्याशु भुजगः कालचोदितः ॥ २४ ॥
विशालाक्षशिरश्छित्त्वा पातयामास भूतले ।त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ २५ ॥
महोदरं महेष्वासं नाराचेन स्तनान्तरे ।विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ २६ ॥
आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे ।भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ॥ २७ ॥
बह्वाशिनं ततो भीमः शरेण नतपर्वणा ।प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ २८ ॥
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते ।मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ २९ ॥
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ॥ ३० ॥
एवमेते महेष्वासाः पुत्रास्तव विशां पते ।भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ॥ ३१ ॥
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ ३२ ॥
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप ।न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ ३३ ॥
तथैव हि वधार्थाय पुत्राणां पाण्डवो बली ।नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ ३४ ॥
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष ।दुःखेन महताविष्टो विललापातिकर्शितः ॥ ३५ ॥
निहता भ्रातरः शूरा भीमसेनेन मे युधि ।यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ ३६ ॥
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।सोऽहं कापथमारूढः पश्य दैवमिदं मम ॥ ३७ ॥
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ॥ ३८ ॥
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ ३९ ॥
समयश्च मया पूर्वं कृतो वः शत्रुकर्शन ।नाहं युधि विमोक्तव्यो नाप्याचार्यः कथंचन ॥ ४० ॥
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते ॥ ४१ ॥
स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् ।योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ ४२ ॥
न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ॥ ४३ ॥
« »