Click on words to see what they mean.

संजय उवाच ।विरथं तं समासाद्य चित्रसेनं मनस्विनम् ।रथमारोपयामास विकर्णस्तनयस्तव ॥ १ ॥
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम् ।भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ २ ॥
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः ।मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ ३ ॥
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः ।महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ ॥ ४ ॥
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि ।भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥ ५ ॥
तेन सम्यक्प्रणीतानि शरजालानि भारत ।प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ॥ ६ ॥
तथैव शरजालानि भीष्मेणास्तानि मारिष ।आकाशे समदृश्यन्त खगमानां व्रजा इव ॥ ७ ॥
निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि ।अदृश्यं समरे चक्रे शरजालेन भागशः ॥ ८ ॥
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः ।नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ ९ ॥
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः ।चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ १० ॥
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् ।निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ ११ ॥
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः ।आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥ १२ ॥
यमावपि सुसंक्रुद्धः समासाद्य रणे तदा ।शरैः संछादयामास भीष्मः परपुरंजयः ॥ १३ ॥
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ ।जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ १४ ॥
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् ।भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान् ॥ १५ ॥
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् ।महता रथवंशेन परिवव्रुः पितामहम् ॥ १६ ॥
स समन्तात्परिवृतः पिता देवव्रतस्तव ।चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ १७ ॥
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि ।मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ १८ ॥
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः ।दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ १९ ॥
रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् ।अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ २० ॥
शिरांसि रथिनां भीष्मः पातयामास संयुगे ।तालेभ्य इव पक्वानि फलानि कुशलो नरः ॥ २१ ॥
पतद्भिश्च महाराज शिरोभिर्धरणीतले ।बभूव तुमुलः शब्दः पततामश्मनामिव ॥ २२ ॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे ।सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ २३ ॥
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् ।एकमेकं समाहूय युद्धायैवोपतस्थिरे ॥ २४ ॥
शिखण्डी तु समासाद्य भरतानां पितामहम् ।अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ २५ ॥
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे ।प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥ २६ ॥
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् ।सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ॥ २७ ॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।अपरां दिशमास्थाय स्थिते सवितरि प्रभो ॥ २८ ॥
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः ।पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ।शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ॥ २९ ॥
ते हन्यमानाः समरे तावकाः पुरुषर्षभ ।आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ।यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ॥ ३० ॥
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् ।वध्यतां समरे राजन्पार्षतेन महात्मना ॥ ३१ ॥
तं श्रुत्वा निनदं घोरं तावकानां महारथौ ।विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ ३२ ॥
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ ।छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ ३३ ॥
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः ।आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ॥ ३४ ॥
ततो युधिष्ठिरो राजा महत्या सेनया वृतः ।आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ॥ ३५ ॥
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष ।विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ॥ ३६ ॥
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ ।अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥ ३७ ॥
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव ।व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ ३८ ॥
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते ।परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ ३९ ॥
ततो दुर्योधनो राजा लोहितायति भास्करे ।अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ ४० ॥
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् ।अस्तं गिरिमथारूढे नप्रकाशति भास्करे ॥ ४१ ॥
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ।गोमायुगणसंकीर्णा क्षणेन रजनीमुखे ॥ ४२ ॥
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् ।घोरमायोधनं जज्ञे भूतसंघसमाकुलम् ॥ ४३ ॥
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः ।समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ ४४ ॥
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् ।विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ ४५ ॥
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा ।ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ ४६ ॥
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् ।अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति ॥ ४७ ॥
दुर्योधनोऽपि नृपतिः परिवार्य महारणे ।भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति ॥ ४८ ॥
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः ।परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥ ४९ ॥
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः ।परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ ५० ॥
एवमेते महाराज तावकाः पाण्डवैः सह ।पर्यवर्तन्त सहिता निशाकाले परंतपाः ॥ ५१ ॥
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा ।न्यविशन्त महाराज पूजयन्तः परस्परम् ॥ ५२ ॥
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि ।अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ॥ ५३ ॥
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः ।गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ ५४ ॥
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् ।न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः ॥ ५५ ॥
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप ।हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ॥ ५६ ॥
« »