Click on words to see what they mean.

संजय उवाच ।अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः ।विकृष्य चापं समरे भारसाधनमुत्तमम् ॥ १ ॥
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ।प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥ २ ॥
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः ।आददानस्य भूयश्च संदधानस्य चापरान् ॥ ३ ॥
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः ।ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ ४ ॥
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः ।रथानामयुतं तस्य प्रेषयामास भारत ॥ ५ ॥
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ ६ ॥
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः ।आससाद ततो वीरो भूरिश्रवसमाहवे ॥ ७ ॥
स हि संदृश्य सेनां तां युयुधानेन पातिताम् ।अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ ८ ॥
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः ।व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान् ।सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥ ९ ॥
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः ।न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥ १० ॥
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥ ११ ॥
समासाद्य महेष्वासं भूरिश्रवसमाहवे ।ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ १२ ॥
भो भो कौरवदायाद सहास्माभिर्महाबल ।एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥ १३ ॥
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥ १४ ॥
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥ १५ ॥
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः ।युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ १६ ॥
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥ १७ ॥
अपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।एकस्य च बहूनां च समेतानां रणाजिरे ॥ १८ ॥
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् ।प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥ १९ ॥
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् ।असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः ॥ २० ॥
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥ २१ ॥
विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ २२ ॥
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥ २३ ॥
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः ।चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ।ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥ २४ ॥
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् ।वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥ २५ ॥
रथं रथेन समरे पीडयित्वा महाबलौ ।तावन्योन्यस्य समरे निहत्य रथवाजिनः ।विरथावभिवल्गन्तौ समेयातां महारथौ ॥ २६ ॥
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ ।शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ २७ ॥
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ २८ ॥
तवापि तनयो राजन्भूरिश्रवसमाहवे ।आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ २९ ॥
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् ।अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ ३० ॥
लोहितायति चादित्ये त्वरमाणो धनंजयः ।पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ३१ ॥
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।संप्राप्यैव गता नाशं शलभा इव पावकम् ॥ ३२ ॥
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ ३३ ॥
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥ ३४ ॥
अवहारं ततश्चक्रे पिता देवव्रतस्तव ।संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ ३५ ॥
पाण्डवानां कुरूणां च परस्परसमागमे ।ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ ३६ ॥
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥ ३७ ॥
« »