Click on words to see what they mean.

संजय उवाच ।विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् ।विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥ १ ॥
तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः ।रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ २ ॥
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ॥ ३ ॥
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा ।अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥ ४ ॥
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः ।अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ ५ ॥
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ ६ ॥
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः ।दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ॥ ७ ॥
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः ।जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ॥ ८ ॥
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् ।तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ॥ ९ ॥
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ।तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ।तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ १० ॥
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः ।यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥ ११ ॥
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः ।अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ १२ ॥
ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः ।ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ १३ ॥
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः ।कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ १४ ॥
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः ।युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ १५ ॥
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ॥ १६ ॥
भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम् ।चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ १७ ॥
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः ।अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ १८ ॥
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः ।रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ॥ १९ ॥
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः ।नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ २० ॥
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥ २१ ॥
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ॥ २२ ॥
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ २३ ॥
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ २४ ॥
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः ।सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥ २५ ॥
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् ।चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ॥ २६ ॥
ततस्ते तावका वीरा राजपुत्रा महारथाः ।समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ २७ ॥
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव ।दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ॥ २८ ॥
अपेतशिशिरे काले समिद्धमिव पावकः ।अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ॥ २९ ॥
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते ।लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥ ३० ॥
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ॥ ३१ ॥
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः ।अविध्यत महाराज तदद्भुतमिवाभवत् ॥ ३२ ॥
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ ३३ ॥
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति ॥ ३४ ॥
तामापतन्तीं सहसा घोररूपां दुरासदाम् ।अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥ ३५ ॥
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ ३६ ॥
ततः समाकुले तस्मिन्वर्तमाने महाभये ।अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ ३७ ॥
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ ३८ ॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ ३९ ॥
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ ४० ॥
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥ ४१ ॥
« »