Click on words to see what they mean.

संजय उवाच ।विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः ।व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ १ ॥
तत्र शब्दो महानासीत्तव तेषां च भारत ।युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ २ ॥
संनह्यतां पदातीनां हयानां चैव भारत ।शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ ३ ॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥ ४ ॥
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।व्यादिदेश महाराज रथिनो रथिनां वरः ॥ ५ ॥
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः ।चक्षुषी सहदेवश्च नकुलश्च महारथः ।तुण्डमासीन्महाराज भीमसेनो महाबलः ॥ ६ ॥
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥ ७ ॥
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ।धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥ ८ ॥
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः ।धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥ ९ ॥
पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ १० ॥
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ ११ ॥
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥ १२ ॥
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥ १३ ॥
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ १४ ॥
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥ १५ ॥
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः ।शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ १६ ॥
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष ।दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ १७ ॥
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः ।उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ १८ ॥
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः ।वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ १९ ॥
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥ २० ॥
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष ।व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ २१ ॥
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।सूर्योदये महाराज ततो युद्धमभून्महत् ॥ २२ ॥
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः ।हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥ २३ ॥
सारथिं च रथी राजन्कुञ्जरांश्च महारणे ।हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥ २४ ॥
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ २५ ॥
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ २६ ॥
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥ २७ ॥
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ २८ ॥
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः ।विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥ २९ ॥
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे ।सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ३० ॥
स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् ।व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ ३१ ॥
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम ।सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥ ३२ ॥
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥ ३३ ॥
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ ३४ ॥
तदद्भुतमपश्याम तावकानां परैः सह ।एकायनगताः सर्वे यदयुध्यन्त भारत ॥ ३५ ॥
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते ।युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥ ३६ ॥
« »