Click on words to see what they mean.

धृतराष्ट्र उवाच ।प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे ।क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ १ ॥
भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय ।पितामहे वा पाञ्चालास्तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ॥ ३ ॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ।महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ ४ ॥
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् ।अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥ ५ ॥
धनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ ६ ॥
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव ।स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ॥ ७ ॥
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।शिलानामिव शैलेषु पतितानामभूत्स्वनः ॥ ८ ॥
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥ ९ ॥
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः ।प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥ १० ॥
प्रावर्तत महावेगा नदी रुधिरवाहिनी ।मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ॥ ११ ॥
वराश्वनरनागानां शरीरप्रभवा तदा ।परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥ १२ ॥
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप ।यथा तव सुतानां च पाण्डवानां च भारत ॥ १३ ॥
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः ।गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ॥ १४ ॥
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष ।शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥ १५ ॥
विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः ।अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ॥ १६ ॥
तात भ्रातः सखे बन्धो वयस्य मम मातुल ।मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ १७ ॥
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि ।स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ १८ ॥
तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः ।मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ १९ ॥
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।जघान पाण्डवरथानादिश्यादिश्य भारत ॥ २० ॥
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ २१ ॥
तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा ।अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ २२ ॥
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ २३ ॥
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो ।एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ॥ २४ ॥
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ २५ ॥
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ।अमानुषेण रूपेण चरन्तं पितरं तव ॥ २६ ॥
शलभा इव राजानः पतन्ति विधिचोदिताः ।भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः ॥ २७ ॥
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ।नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ॥ २८ ॥
भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा ।गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ॥ २९ ॥
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ।नाराचेन सुतीक्ष्णेन निजघान पिता तव ॥ ३० ॥
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ।मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ॥ ३१ ॥
एवं सा धर्मराजस्य वध्यमाना महाचमूः ।भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ॥ ३२ ॥
प्रकीर्यत महासेना शरवर्षाभितापिता ।पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ॥ ३३ ॥
यतमानापि ते वीरा द्रवमाणान्महारथान् ।नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः ॥ ३४ ॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।अभज्यत महाराज न च द्वौ सह धावतः ॥ ३५ ॥
आविद्धनरनागाश्वं पतितध्वजकूबरम् ।अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ ३६ ॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ ३७ ॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥ ३८ ॥
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् ।ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ ३९ ॥
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः ।उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ ४० ॥
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्त्वया ।प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ॥ ४१ ॥
यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ॥ ४२ ॥
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ।इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ॥ ४३ ॥
बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः ।द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ॥ ४४ ॥
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् ।भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव ॥ ४५ ॥
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ।चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ॥ ४६ ॥
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः ।यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥ ४७ ॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥ ४८ ॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।धनंजयरथं तूर्णं शरवर्षैरवाकिरत् ॥ ४९ ॥
क्षणेन स रथस्तस्य सहयः सहसारथिः ।शरवर्षेण महता संछन्नो न प्रकाशते ॥ ५० ॥
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥ ५१ ॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् ।पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ॥ ५२ ॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ ५३ ॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् ।अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ ५४ ॥
तस्य तत्पूजयामास लाघवं शंतनोः सुतः ।साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ ५५ ॥
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ॥ ५६ ॥
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥ ५७ ॥
अदर्शयद्वासुदेवो हययाने परं बलम् ।मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ॥ ५८ ॥
तथापि भीष्मः सुदृढं वासुदेवधनंजयौ ।विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ॥ ५९ ॥
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ॥ ६० ॥
पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः ।कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ॥ ६१ ॥
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ ६२ ॥
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् ।संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ ६३ ॥
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ ६४ ॥
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ ६५ ॥
अमृष्यमाणो भगवान्केशवः परवीरहा ।अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥ ६६ ॥
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ ६७ ॥
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः ।एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ।आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ॥ ६८ ॥
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ।भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ॥ ६९ ॥
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे ।कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ॥ ७० ॥
तथा चिन्तयतस्तस्य भूय एव पितामहः ।प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ॥ ७१ ॥
तेषां बहुत्वाद्धि भृशं शराणां दिशोऽथ सर्वाः पिहिता बभूवुः ।न चान्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रश्मिमाली ।ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः ॥ ७२ ॥
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ।श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च ॥ ७३ ॥
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ।किरीटिनं त्वरमाणाभिसस्रुर्निदेशगाः शांतनवस्य राज्ञः ॥ ७४ ॥
तं वाजिपादातरथौघजालैरनेकसाहस्रशतैर्ददर्श ।किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च ॥ ७५ ॥
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ।अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् ॥ ७६ ॥
स तान्यनीकानि महाधनुष्माञ्शिनिप्रवीरः सहसाभिपत्य ।चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य ॥ ७७ ॥
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ।युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः ॥ ७८ ॥
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ।मा स्वां प्रतिज्ञां जहत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् ॥ ७९ ॥
तान्वासवानन्तरजो निशम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ।पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च संख्ये समुदीर्यमाणम् ॥ ८० ॥
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ।उवाच शैनेयमभिप्रशंसन्दृष्ट्वा कुरूनापततः समन्तात् ॥ ८१ ॥
ये यान्ति यान्त्वेव शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ।भीष्मं रथात्पश्य निपात्यमानं द्रोणं च संख्ये सगणं मयाद्य ॥ ८२ ॥
नासौ रथः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ।तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य ॥ ८३ ॥
निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरम् ।प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाश्विनोश्च ॥ ८४ ॥
निहत्य सर्वान्धृतराष्ट्रपुत्रांस्तत्पक्षिणो ये च नरेन्द्रमुख्याः ।राज्येन राजानमजातशत्रुं संपादयिष्याम्यहमद्य हृष्टः ॥ ८५ ॥
ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् ।क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् ॥ ८६ ॥
संकम्पयन्गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् ।मदान्धमाजौ समुदीर्णदर्पः सिंहो जिघांसन्निव वारणेन्द्रम् ॥ ८७ ॥
सोऽभ्यद्रवद्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी ।व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खेऽचिरभापिनद्धः ॥ ८८ ॥
सुदर्शनं चास्य रराज शौरेस्तच्चक्रपद्मं सुभुजोरुनालम् ।यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् ॥ ८९ ॥
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् ।तस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ॥ ९० ॥
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य ।सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिति चिन्तयित्वा ॥ ९१ ॥
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव जीवलोकम् ।अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव कालवह्निः ॥ ९२ ॥
तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम् ।असंभ्रमात्कार्मुकबाणपाणी रथे स्थितः शांतनवोऽभ्युवाच ॥ ९३ ॥
एह्येहि देवेश जगन्निवास नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे ।प्रसह्य मां पातय लोकनाथ रथोत्तमाद्भूतशरण्य संख्ये ॥ ९४ ॥
त्वया हतस्येह ममाद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके ।संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥ ९५ ॥
रथादवप्लुत्य ततस्त्वरावान्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् ।जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥ ९६ ॥
निगृह्यमाणश्च तदादिदेवो भृशं सरोषः किल नाम योगी ।आदाय वेगेन जगाम विष्णुर्जिष्णुं महावात इवैकवृक्षम् ॥ ९७ ॥
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् ।बलान्निजग्राह किरीटमाली पदेऽथ राजन्दशमे कथंचित् ॥ ९८ ॥
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली ।उवाच कोपं प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ॥ ९९ ॥
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च ।अन्तं करिष्यामि यथा कुरूणां त्वयाहमिन्द्रानुज संप्रयुक्तः ॥ १०० ॥
ततः प्रतिज्ञां समयं च तस्मै जनार्दनः प्रीतमना निशम्य ।स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥ १०१ ॥
स तानभीषून्पुनराददानः प्रगृह्य शङ्खं द्विषतां निहन्ता ।विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥ १०२ ॥
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपक्ष्मनेत्रम् ।विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ १०३ ॥
मृदङ्गभेरीपटहप्रणादा नेमिस्वना दुन्दुभिनिस्वनाश्च ।ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥ १०४ ॥
गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च ।जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥ १०५ ॥
तं कौरवाणामधिपो बलेन भीष्मेण भूरिश्रवसा च सार्धम् ।अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥ १०६ ॥
अथार्जुनाय प्रजहार भल्लान्भूरिश्रवाः सप्त सुवर्णपुङ्खान् ।दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शांतनवश्च शक्तिम् ॥ १०७ ॥
स सप्तभिः सप्त शरप्रवेकान्संवार्य भूरिश्रवसा विसृष्टान् ।शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥ १०८ ॥
ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शांतनवेन मुक्ताम् ।गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः ॥ १०९ ॥
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् ।माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ ११० ॥
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् ।शरौघजालैर्विमलाग्निवर्णैर्निवारयामास किरीटमाली ॥ १११ ॥
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् ।निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरंगमाणाम् ॥ ११२ ॥
ततो दिशश्चानुदिशश्च पार्थः शरैः सुधारैर्निशितैर्वितत्य ।गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयां चकार ॥ ११३ ॥
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिस्वनाश्च ।अन्तर्हिता गाण्डिवनिस्वनेन बभूवुरुग्राश्च रणप्रणादाः ॥ ११४ ॥
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखा नृवीराः ।पाञ्चालराजो द्रुपदश्च वीरस्तं देशमाजग्मुरदीनसत्त्वाः ॥ ११५ ॥
सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः ।ततस्ततः संनतिमेव जग्मुर्न तं प्रतीपोऽभिससार कश्चित् ॥ ११६ ॥
तस्मिन्सुघोरे नृपसंप्रहारे हताः प्रवीराः सरथाः ससूताः ।गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥ ११७ ॥
परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः ।दृढाहताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्निशितैः शिताग्रैः ॥ ११८ ॥
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु ।पदातिसंघाश्च रथाश्च संख्ये हयाश्च नागाश्च धनंजयेन ॥ ११९ ॥
बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।ऐन्द्रेण तेनास्त्रवरेण राजन्महाहवे भिन्नतनुत्रदेहाः ॥ १२० ॥
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा ।नदी सुघोरा नरदेहफेना प्रवर्तिता तत्र रणाजिरे वै ॥ १२१ ॥
वेगेन सातीव पृथुप्रवाहा प्रसुस्रुता भैरवारावरूपा ।परेतनागाश्वशरीररोधा नरान्त्रमज्जाभृतमांसपङ्का ॥ १२२ ॥
प्रभूतरक्षोगणभूतसेविता शिरःकपालाकुलकेशशाद्वला ।शरीरसंघातसहस्रवाहिनी विशीर्णनानाकवचोर्मिसंकुला ॥ १२३ ॥
नराश्वनागास्थिनिकृत्तशर्करा विनाशपातालवती भयावहा ।तां कङ्कमालावृतगृध्रकह्वैः क्रव्यादसंघैश्च तरक्षुभिश्च ॥ १२४ ॥
उपेतकूलां ददृशुः समन्तात्क्रूरां महावैतरणीप्रकाशाम् ।प्रवर्तितामर्जुनबाणसंघैर्मेदोवसासृक्प्रवहां सुभीमाम् ॥ १२५ ॥
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः ।वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसंघान् ।विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च ॥ १२६ ॥
ततो रविं संहृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ।तदैन्द्रमस्त्रं विततं सुघोरमसह्यमुद्वीक्ष्य युगान्तकल्पम् ॥ १२७ ॥
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ।चक्रुर्निशां संधिगतां समीक्ष्य विभावसोर्लोहितराजियुक्ताम् ॥ १२८ ॥
अवाप्य कीर्तिं च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि ।ययौ नरेन्द्रैः सह सोदरैश्च समाप्तकर्मा शिबिरं निशायाम् ।ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतरः प्रणादः ॥ १२९ ॥
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन ।प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ।महत्कृतं कर्म धनंजयेन कर्तुं यथा नार्हति कश्चिदन्यः ॥ १३० ॥
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ।द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् ।स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन ॥ १३१ ॥
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ।उल्कासहस्रैश्च सुसंप्रदीप्तैर्विभ्राजमानैश्च तथा प्रदीपैः ।किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ १३२ ॥
« »