Click on words to see what they mean.

संजय उवाच ।व्युष्टां निशां भारत भारतानामनीकिनीनां प्रमुखे महात्मा ।ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥ १ ॥
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ ।जयद्रथश्चातिबलो बलौघैर्नृपास्तथान्येऽनुययुः समन्तात् ॥ २ ॥
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् ।रराज राजोत्तम राजमुख्यैर्वृतः स देवैरिव वज्रपाणिः ॥ ३ ॥
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः ।सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥ ४ ॥
सा वाहिनी शांतनवेन राज्ञा महारथैर्वारणवाजिभिश्च ।बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥ ५ ॥
ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शांतनवाभिगुप्ता ।सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥ ६ ॥
तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् ।व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥ ७ ॥
स निर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः ।वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्नयूनाम् ॥ ८ ॥
सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण संख्ये ।कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः ॥ ९ ॥
प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन ।तं व्यूहराजं ददृशुस्त्वदीयाश्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥ १० ॥
यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवनन्दनेन ।तथा तथोद्देशमुपेत्य तस्थुः पाञ्चालमुख्यैः सह चेदिमुख्याः ॥ ११ ॥
ततो महावेगसमाहतानि भेरीसहस्राणि विनेदुराजौ ।शङ्खस्वना दुन्दुभिनिस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः ॥ १२ ॥
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ।क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च ॥ १३ ॥
तच्छङ्खशब्दावृतमन्तरिक्षमुद्धूतभौमद्रुतरेणुजालम् ।महावितानावततप्रकाशमालोक्य वीराः सहसाभिपेतुः ॥ १४ ॥
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ।गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः ॥ १५ ॥
आवर्तमानान्यभिवर्तमानैर्बाणैः क्षतान्यद्भुतदर्शनानि ।प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः ॥ १६ ॥
सुवर्णतारागणभूषितानि शरावराणि प्रहितानि वीरैः ।विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ॥ १७ ॥
गजैर्विषाणैर्वरहस्तरुग्णाः केचित्ससूता रथिनः प्रपेतुः ।गजर्षभाश्चापि रथर्षभेण निपेतिरे बाणहताः पृथिव्याम् ॥ १८ ॥
गजौघवेगोद्धतसादितानां श्रुत्वा निषेदुर्वसुधां मनुष्याः ।आर्तस्वरं सादिपदातियूनां विषाणगात्रावरताडितानाम् ॥ १९ ॥
संभ्रान्तनागाश्वरथे प्रसूते महाभये सादिपदातियूनाम् ।महारथैः संपरिवार्यमाणं ददर्श भीष्मः कपिराजकेतुम् ॥ २० ॥
तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगोद्धतवीर्ययातः ।महास्त्रबाणाशनिदीप्तमार्गं किरीटिनं शांतनवोऽभ्यधावत् ॥ २१ ॥
तथैव शक्रप्रतिमानकल्पमिन्द्रात्मजं द्रोणमुखाभिसस्रुः ।कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् ॥ २२ ॥
ततो रथानीकमुखादुपेत्य सर्वास्त्रवित्काञ्चनचित्रवर्मा ।जवेन शूरोऽभिससार सर्वांस्तथार्जुनस्यात्र सुतोऽभिमन्युः ॥ २३ ॥
तेषां महास्त्राणि महारथानामसक्तकर्मा विनिहत्य कार्ष्णिः ।बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः ॥ २४ ॥
ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीं वैशसने रिपूणाम् ।जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः ॥ २५ ॥
ततः प्रहस्याद्भुतदर्शनेन गाण्डीवनिर्ह्रादमहास्वनेन ।विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली ॥ २६ ॥
तमुत्तमं सर्वधनुर्धराणामसक्तकर्मा कपिराजकेतुः ।भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः ॥ २७ ॥
एवंविधं कार्मुकभीमनादमदीनवत्सत्पुरुषोत्तमाभ्याम् ।ददर्श लोकः कुरुसृञ्जयाश्च तद्द्वैरथं भीष्मधनंजयाभ्याम् ॥ २८ ॥
« »