Click on words to see what they mean.

संजय उवाच ।ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे ।रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ १ ॥
अथैनं रथवृन्देन कोष्टकीकृत्य भारत ।शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ २ ॥
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह ।प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि ।चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ॥ ३ ॥
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ।रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ॥ ४ ॥
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ।देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ ५ ॥
सात्यकिं चाभिमन्युं च महत्या सेनया सह ।गान्धाराः समरे शूरा रुरुधुः सहसौबलाः ॥ ६ ॥
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ ७ ॥
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये ।अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥ ८ ॥
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ॥ ९ ॥
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ १० ॥
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ ।मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ ११ ॥
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् ।यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ १२ ॥
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ ।दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ॥ १३ ॥
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् ।अतीत्य पितरं युद्धे यदयुध्यत भारत ॥ १४ ॥
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् ।हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ १५ ॥
ततो दुर्योधनो राजा प्रहारवरमोहितः ।निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ १६ ॥
तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः ।अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ॥ १७ ॥
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः ।निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ १८ ॥
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः ।द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ।जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ॥ १९ ॥
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ।नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ॥ २० ॥
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते ।विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ॥ २१ ॥
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः ।तावास्थितावेकरथं सौभद्रशिनिपुंगवौ ।सौबलीं समरे सेनां शातयेतां समन्ततः ॥ २२ ॥
शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ ।अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ २३ ॥
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते ।ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ २४ ॥
वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे ।दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ २५ ॥
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ ।न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ २६ ॥
ततो दुर्योधनो राजा समाश्वस्य विशां पते ।न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ॥ २७ ॥
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत ।तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ॥ २८ ॥
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः ।अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ॥ २९ ॥
पुनरावर्ततां तेषां वेग आसीद्विशां पते ।पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ ३० ॥
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः ।अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः ॥ ३१ ॥
पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत ।नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ ३२ ॥
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने ।कृपे चैव महेष्वासे द्रवतीयं वरूथिनी ॥ ३३ ॥
न पाण्डवाः प्रतिबलास्तव राजन्कथंचन ।तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च ॥ ३४ ॥
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह ।यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ ३५ ॥
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे ।न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी ॥ ३६ ॥
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च ।कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ ३७ ॥
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ ३८ ॥
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ ३९ ॥
बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः ।अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ ४० ॥
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम ।करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ॥ ४१ ॥
अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः ।मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ॥ ४२ ॥
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ॥ ४३ ॥
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् ।दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ॥ ४४ ॥
« »