Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः ।रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय ॥ १ ॥
दिष्टमेव परं मन्ये पौरुषादपि संजय ।यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम् ॥ २ ॥
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् ।स कथं पाण्डवं युद्धे नातरत्संजयौजसा ॥ ३ ॥
संजय उवाच ।शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् ।न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ॥ ४ ॥
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् ।सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ५ ॥
तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥ ६ ॥
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७ ॥
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् ।शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ ८ ॥
आददे च शरं घोरं पार्षतस्य वधं प्रति ।शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ॥ ९ ॥
हाहाकारो महानासीत्सर्वसैन्यस्य भारत ।तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ १० ॥
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् ।यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ ११ ॥
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ १२ ॥
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह ।धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ १३ ॥
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् ।द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ १४ ॥
तामापतन्तीं सहसा शक्तिं कनकभूषणाम् ।त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ॥ १५ ॥
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् ।ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ॥ १६ ॥
शरवर्षं ततस्तं तु संनिवार्य महायशाः ।द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ १७ ॥
स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः ।द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ १८ ॥
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ॥ १९ ॥
लाघवाद्व्यंसयामास गदां हेमविभूषिताम् ।व्यंसयित्वा गदां तां च प्रेषयामास पार्षते ॥ २० ॥
भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ २१ ॥
अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः ।द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ २२ ॥
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ २३ ॥
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे ।द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ २४ ॥
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः ।अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ २५ ॥
सारथिं चास्य भल्लेन रथनीडादपातयत् ।अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ २६ ॥
पातयामास समरे सिंहनादं ननाद च ।ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ २७ ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ॥ २८ ॥
तामस्य विशिखैस्तूर्णं पातयामास भारत ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ २९ ॥
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् ।खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ ३० ॥
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया ।आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ ३१ ॥
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ ३२ ॥
यदेनं शरवर्षेण वारयामास पार्षतम् ।न शशाक ततो गन्तुं बलवानपि संयुगे ॥ ३३ ॥
तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् ।वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् ॥ ३४ ॥
ततो भीमो महाबाहुः सहसाभ्यपतद्बली ।साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ ३५ ॥
स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः ।पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ॥ ३६ ॥
ततो दुर्योधनो राजा कलिङ्गं समचोदयत् ।सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ ३७ ॥
ततः सा महती सेना कलिङ्गानां जनेश्वर ।भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ ३८ ॥
पाञ्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः ।विराटद्रुपदौ वृद्धौ योधयामास संगतौ ।धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ॥ ३९ ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।कलिङ्गानां च समरे भीमस्य च महात्मनः ।जगतः प्रक्षयकरं घोररूपं भयानकम् ॥ ४० ॥
« »