Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥ १ ॥
संजय उवाच ।समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः ।अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ २ ॥
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव ।अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥ ३ ॥
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः ।पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ ४ ॥
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ।तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ ५ ॥
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः ।संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ ६ ॥
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ ७ ॥
सौभद्रे भीमसेने च शैनेये च महारथे ।केकये च विराटे च धृष्टद्युम्ने च पार्षते ॥ ८ ॥
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः ।ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ ९ ॥
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे ।सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ १० ॥
सादितध्वजनागाश्च हतप्रवरवाजिनः ।विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥ ११ ॥
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ १२ ॥
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ १३ ॥
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ १४ ॥
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ॥ १५ ॥
तमब्रवीद्वासुदेवो यत्तो भव धनंजय ।एष त्वा प्रापये वीर पितामहरथं प्रति ॥ १६ ॥
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥ १७ ॥
चञ्चद्बहुपताकेन बलाकावर्णवाजिना ।समुच्छ्रितमहाभीमनदद्वानरकेतुना ।महता मेघनादेन रथेनादित्यवर्चसा ॥ १८ ॥
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ।आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ॥ १९ ॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।त्रासयानं रणे शूरान्पातयन्तं च सायकैः ॥ २० ॥
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम् ॥ २१ ॥
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ॥ २२ ॥
ततो भीष्मो महाराज कौरवाणां पितामहः ।अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ॥ २३ ॥
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ २४ ॥
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः ।विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ २५ ॥
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ २६ ॥
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ २७ ॥
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः ।प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ २८ ॥
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम् ॥ २९ ॥
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ ३० ॥
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् ।अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ॥ ३१ ॥
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् ।प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ॥ ३२ ॥
तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः ।चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ॥ ३३ ॥
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ ३४ ॥
एष पाण्डुसुतस्तात कृष्णेन सहितो बली ।यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ॥ ३५ ॥
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः ।न युध्यति रणे पार्थं हितकामः सदा मम ॥ ३६ ॥
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ।एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ॥ ३७ ॥
उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः ।सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ॥ ३८ ॥
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ ३९ ॥
तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् ।स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ ४० ॥
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः ।तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ॥ ४१ ॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ ४२ ॥
शरजालं ततस्तत्तु शरजालेन कौरव ।वारयामास पार्थस्य भीष्मः शांतनवस्तथा ॥ ४३ ॥
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ ४४ ॥
भीष्मचापविमुक्तानि शरजालानि संघशः ।शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥ ४५ ॥
तथैवार्जुनमुक्तानि शरजालानि भागशः ।गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ॥ ४६ ॥
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः ।भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ॥ ४७ ॥
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ॥ ४८ ॥
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ४९ ॥
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः ।विरराज रणे राजन्सपुष्प इव किंशुकः ॥ ५० ॥
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः ॥ ५१ ॥
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।नाशक्नुतां तदान्योन्यमभिसंधातुमाहवे ॥ ५२ ॥
मण्डलानि विचित्राणि गतप्रत्यागतानि च ।अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ ५३ ॥
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ ।राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ ५४ ॥
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः ।तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ ५५ ॥
तयोः शङ्खप्रणादेन रथनेमिस्वनेन च ।दारिता सहसा भूमिश्चकम्प च ननाद च ॥ ५६ ॥
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।बलिनौ समरे शूरावन्योन्यसदृशावुभौ ॥ ५७ ॥
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥ ५८ ॥
तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् ।विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ॥ ५९ ॥
न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ ६० ॥
उभौ हि शरजालेन तावदृश्यौ बभूवतुः ।प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥ ६१ ॥
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः ।अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ ६२ ॥
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ ।सदेवासुरगन्धर्वैर्लोकैरपि कथंचन ॥ ६३ ॥
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥ ६४ ॥
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ॥ ६५ ॥
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ ६६ ॥
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः ।गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते ॥ ६७ ॥
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत ।अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥ ६८ ॥
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः ।शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ।उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ॥ ६९ ॥
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे ।द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ७० ॥
« »