Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः ।कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ १ ॥
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् ।योधयामास समरे कलिङ्गः सह सेनया ॥ २ ॥
संजय उवाच ।पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ ३ ॥
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् ।रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥ ४ ॥
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् ।केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ ५ ॥
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह ।आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ ६ ॥
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः ।अयुतेन गजानां च निषादैः सह केतुमान् ।भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥ ७ ॥
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः ।अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥ ८ ॥
ततः प्रववृते युद्धं घोररूपं भयानकम् ।प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥ ९ ॥
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ।यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥ १० ॥
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ।बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥ ११ ॥
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते ।महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥ १२ ॥
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ।स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥ १३ ॥
विमर्दः सुमहानासीदल्पानां बहुभिः सह ।कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥ १४ ॥
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ।भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥ १५ ॥
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु ।स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥ १६ ॥
न चचाल रथोपस्थाद्भीमसेनो महाबलः ।शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥ १७ ॥
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ।शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥ १८ ॥
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ।योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥ १९ ॥
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ।अश्वाञ्जघान समरे भीमसेनस्य सायकैः ।ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥ २० ॥
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ।शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥ २१ ॥
स तया निहतो राजन्कलिङ्गस्य सुतो रथात् ।सध्वजः सह सूतेन जगाम धरणीतलम् ॥ २२ ॥
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ।रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ २३ ॥
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् ।उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥ २४ ॥
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ।नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥ २५ ॥
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह ।प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ २६ ॥
तमापतन्तं वेगेन प्रेरितं निशितं शरम् ।भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥ २७ ॥
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे ।तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥ २८ ॥
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ।चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ॥ २९ ॥
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश ।भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥ ३० ॥
भानुमांस्तु ततो भीमं शरवर्षेण छादयन् ।ननाद बलवन्नादं नादयानो नभस्तलम् ॥ ३१ ॥
न तं स ममृषे भीमः सिंहनादं महारणे ।ततः स्वरेण महता विननाद महास्वनम् ॥ ३२ ॥
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी ।न भीमं समरे मेने मानुषं भरतर्षभ ॥ ३३ ॥
ततो भीमो महाराज नदित्वा विपुलं स्वनम् ।सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥ ३४ ॥
आरुरोह ततो मध्यं नागराजस्य मारिष ।खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ ३५ ॥
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः ।गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥ ३६ ॥
छिन्नस्कन्धः स विनदन्पपात गजयूथपः ।आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥ ३७ ॥
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः ।खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥ ३८ ॥
स चचार बहून्मार्गानभीतः पातयन्गजान् ।अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ ३९ ॥
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः ।श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥ ४० ॥
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः ।खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥ ४१ ॥
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः ।मोहयामास च तदा कालान्तकयमोपमः ॥ ४२ ॥
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ।सासिमुत्तमवेगेन विचरन्तं महारणे ॥ ४३ ॥
निकृत्य रथिनामाजौ रथेषाश्च युगानि च ।जघान रथिनश्चापि बलवानरिमर्दनः ॥ ४४ ॥
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत ।भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।संपातं समुदीर्यं च दर्शयामास पाण्डवः ॥ ४५ ॥
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना ।विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ ४६ ॥
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे ।वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥ ४७ ॥
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च ।परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ ४८ ॥
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ।तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥ ४९ ॥
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह ।घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ।पततः पतितांश्चैव पश्यामः सह सादिभिः ॥ ५० ॥
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः ।आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥ ५१ ॥
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः ।अश्वारोहवरांश्चापि पातयामास भारत ।तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥ ५२ ॥
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः ।परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥ ५३ ॥
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ।तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥ ५४ ॥
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ।स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥ ५५ ॥
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः ।पातयामास खड्गेन सध्वजानपि पाण्डवः ॥ ५६ ॥
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥ ५७ ॥
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् ।खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥ ५८ ॥
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ।अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥ ५९ ॥
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ।परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥ ६० ॥
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ ।श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥ ६१ ॥
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः ।भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥ ६२ ॥
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः ।भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥ ६३ ॥
अथाशोकः समादाय रथं हेमपरिष्कृतम् ।भीमं संपादयामास रथेन रथसारथिः ॥ ६४ ॥
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ।कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६५ ॥
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् ।प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् ॥ ६६ ॥
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ।समाहतो भृशं राजन्कलिङ्गेन महायशाः ।संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥ ६७ ॥
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः ।कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ ६८ ॥
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ ६९ ॥
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः ।केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ ७० ॥
ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम् ।अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ ७१ ॥
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः ।कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ ७२ ॥
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् ।गदामादाय तरसा परिप्लुत्य महाबलः ।भीमः सप्तशतान्वीराननयद्यमसादनम् ॥ ७३ ॥
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ।प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥ ७४ ॥
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः ।बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥ ७५ ॥
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना ।विप्रजग्मुरनीकेषु मेघा वातहता इव ।मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ ७६ ॥
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली ।सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥ ७७ ॥
मोहश्चापि कलिङ्गानामाविवेश परंतप ।प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥ ७८ ॥
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः ।मार्गान्बहून्विचरता धावता च ततस्ततः ।मुहुरुत्पतता चैव संमोहः समजायत ॥ ७९ ॥
भीमसेनभयत्रस्तं सैन्यं च समकम्पत ।क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥ ८० ॥
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा ।पुनरावर्तमानेषु विद्रवत्सु च संघशः ॥ ८१ ॥
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ ८२ ॥
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः ।भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ ८३ ॥
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः ।महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ ८४ ॥
एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः ।भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ ८५ ॥
न हि पाञ्चालराजस्य लोके कश्चन विद्यते ।भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ ८६ ॥
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् ।भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ ८७ ॥
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः ।शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ ८८ ॥
स च पारावताश्वस्य रथे हेमपरिष्कृते ।कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥ ८९ ॥
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ ९० ॥
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥ ९१ ॥
स तत्र गत्वा शैनेयो जवेन जयतां वरः ।पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥ ९२ ॥
स कृत्वा कदनं तत्र प्रगृहीतशरासनः ।आस्थितो रौद्रमात्मानं जघान समरे परान् ॥ ९३ ॥
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् ।रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ ९४ ॥
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् ।संततार सुदुस्तारां भीमसेनो महाबलः ॥ ९५ ॥
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप ।कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥ ९६ ॥
ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे ।अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥ ९७ ॥
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ ९८ ॥
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे ।त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥ ९९ ॥
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ १०० ॥
ततः शरसहस्रेण संनिवार्य महारथान् ।हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥ १०१ ॥
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् ।शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ १०२ ॥
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव ।त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ १०३ ॥
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् ।भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥ १०४ ॥
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥ १०५ ॥
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ १०६ ॥
भीमसेनस्ततो राजन्नपनीते महाव्रते ।प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ १०७ ॥
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत ।नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ १०८ ॥
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः ।पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥ १०९ ॥
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ ११० ॥
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ १११ ॥
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् ।शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ ११२ ॥
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥ ११३ ॥
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः ।रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ ११४ ॥
ततः स्वरथमारुह्य पुनरेव महारथः ।तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ११५ ॥
« »