Click on words to see what they mean.

संजय उवाच ।क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव ।व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ॥ १ ॥
आचार्यमुपसंगम्य कृपं शल्यं च मारिष ।सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ॥ २ ॥
दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत ।अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ ३ ॥
प्राहेदं वचनं काले हर्षयंस्तनयस्तव ।नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ॥ ४ ॥
एकैकशः समर्था हि यूयं सर्वे महारथाः ।पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ ५ ॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः ॥ ६ ॥
संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा ।आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ ७ ॥
शत्रुंजयेन सहितास्तथा दुःशासनेन च ।विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ ८ ॥
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः ।भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ ९ ॥
ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष ।अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ॥ १० ॥
भीष्मः सैन्येन महता समन्तात्परिवारितः ।ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥ ११ ॥
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् ।कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ॥ १२ ॥
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि ।सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥ १३ ॥
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः ।शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥ १४ ॥
ततो दुर्योधनो राजा सहितः सर्वसोदरैः ।अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ॥ १५ ॥
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः ।अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ १६ ॥
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ १७ ॥
सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः ।शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ॥ १८ ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ॥ १९ ॥
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः ।केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ २० ॥
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत ।दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ॥ २१ ॥
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः ।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ २२ ॥
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः ।आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ २३ ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ २४ ॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ २५ ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ २६ ॥
काशिराजश्च शैब्यश्च शिखण्डी च महारथः ।धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ॥ २७ ॥
पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः ।सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥ २८ ॥
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः ।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥ २९ ॥
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः ।पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् ॥ ३० ॥
« »