Click on words to see what they mean.

संजय उवाच ।गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।वर्तमाने महारौद्रे महावीरवरक्षये ॥ १ ॥
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः ।भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ २ ॥
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ ।पाण्डवानामनीकानि विजगाहे महारथः ॥ ३ ॥
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत ।भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ॥ ४ ॥
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् ।निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ॥ ५ ॥
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ ६ ॥
अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः ।संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ ७ ॥
जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ॥ ८ ॥
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥ ९ ॥
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः ।विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ॥ १० ॥
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् ॥ ११ ॥
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।जहार सारथेः कायाच्छिरः संनतपर्वणा ॥ १२ ॥
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् ।कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ १३ ॥
जघान परमक्रुद्धो नृत्यन्निव महारथः ।तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ १४ ॥
लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम् ॥ १५ ॥
तस्य लाघवमार्गस्थमलातसदृशप्रभम् ।दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ १६ ॥
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः ।विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ १७ ॥
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ १८ ॥
तथैव कृतवर्मा च कृपः शल्यश्च मारिष ।विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ १९ ॥
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ २० ॥
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः ।ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ॥ २१ ॥
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ २२ ॥
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ २३ ॥
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः ।चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ २४ ॥
स राजतो महास्कन्धस्तालो हेमविभूषितः ।सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ २५ ॥
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ ।दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ॥ २६ ॥
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च ।प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ॥ २७ ॥
ततः शतसहस्रेण सौभद्रं प्रपितामहः ।अवाकिरदमेयात्मा शराणां नतपर्वणाम् ॥ २८ ॥
ततो दश महेष्वासाः पाण्डवानां महारथाः ।रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ २९ ॥
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ॥ ३० ॥
जवेनापततां तेषां भीष्मः शांतनवो रणे ।पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ॥ ३१ ॥
पूर्णायतविसृष्टेन क्षुरेण निशितेन च ।ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ ३२ ॥
जाम्बूनदमयः केतुः केसरी नरसत्तम ।पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ ३३ ॥
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शांतनवं रणे ।कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ ३४ ॥
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना ।अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ ३५ ॥
तस्य वारणराजस्य जवेनापततो रथी ।शल्यो निवारयामास वेगमप्रतिमं रणे ॥ ३६ ॥
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ ३७ ॥
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् ।उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ ३८ ॥
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः ।स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ॥ ३९ ॥
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् ।वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ॥ ४० ॥
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः ।भीममार्तस्वरं कृत्वा पपात च ममार च ॥ ४१ ॥
एतदीदृशकं कृत्वा मद्रराजो महारथः ।आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ ४२ ॥
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् ।कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ।शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ॥ ४३ ॥
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् ।अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ॥ ४४ ॥
महता रथवंशेन समन्तात्परिवारितः ।सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ॥ ४५ ॥
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ।तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ ४६ ॥
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा ।तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ ४७ ॥
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् ।संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ ४८ ॥
तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः ।भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ ४९ ॥
हाहाकारो महानासीद्योधानां युधि युध्यताम् ।तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥ ५० ॥
अथ शल्यो गदापाणिरवतीर्य महारथात् ।शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ ५१ ॥
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः ।बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ॥ ५२ ॥
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः ।यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ॥ ५३ ॥
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ॥ ५४ ॥
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् ।अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ।प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् ॥ ५५ ॥
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ।शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ।अतिष्ठत रणे भीष्मो विधूम इव पावकः ॥ ५६ ॥
मध्यंदिने यथादित्यं तपन्तमिव तेजसा ।न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ ५७ ॥
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः ।त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ ५८ ॥
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते ।हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ ५९ ॥
ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः ।मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ ६० ॥
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।जघान पाण्डवरथानादिश्यादिश्य भारत ॥ ६१ ॥
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ॥ ६२ ॥
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ६३ ॥
« »