Click on words to see what they mean.

संजय उवाच ।कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ॥ १ ॥
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ २ ॥
शुचा परमया युक्तश्चिन्तयानः पराजयम् ।वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥ ३ ॥
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ ४ ॥
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ ५ ॥
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ॥ ६ ॥
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ॥ ७ ॥
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः ।सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ॥ ८ ॥
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥ ९ ॥
न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ १० ॥
यथानलं प्रज्वलितं पतंगाः समभिद्रुताः ।विनाशायैव गच्छन्ति तथा मे सैनिको जनः ॥ ११ ॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ १२ ॥
मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् ।जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ १३ ॥
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् ।न घातयिष्यामि रणे मित्राणीमानि केशव ॥ १४ ॥
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ १५ ॥
किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् ।मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ १६ ॥
एको भीमः परं शक्त्या युध्यत्येष महाभुजः ।केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ १७ ॥
गदया वीरघातिन्या यथोत्साहं महामनाः ।करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ॥ १८ ॥
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ १९ ॥
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ २० ॥
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ २१ ॥
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ २२ ॥
स त्वं पश्य महेष्वासं योगीष्वर महारथम् ।यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा ॥ २३ ॥
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः ॥ २४ ॥
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः ।चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ २५ ॥
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् ।अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ २६ ॥
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि ।यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥ २७ ॥
अहं च प्रियकृद्राजन्सात्यकिश्च महारथः ।विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥ २८ ॥
तथैव सबलाः सर्वे राजानो राजसत्तम ।त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ॥ २९ ॥
एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥ ३० ॥
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् ।अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥ ३१ ॥
धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष ।नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ ३२ ॥
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः ।कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ।तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ॥ ३३ ॥
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ।अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ॥ ३४ ॥
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ।ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ॥ ३५ ॥
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ।अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा ॥ ३६ ॥
रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् ।सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ॥ ३७ ॥
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ।समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ॥ ३८ ॥
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ।व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ॥ ३९ ॥
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ।तं यथावत्प्रतिव्यूह परानीकविनाशनम् ।अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ ४० ॥
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव ।प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् ॥ ४१ ॥
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ ४२ ॥
इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः ।आकाशग इवाकाशे गन्धर्वनगरोपमः ।नृत्यमान इवाभाति रथचर्यासु मारिष ॥ ४३ ॥
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ।बभूव परमोपेतः स्वयंभूरिव भानुना ॥ ४४ ॥
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः ।कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ॥ ४५ ॥
दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह ।अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ॥ ४६ ॥
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा ।निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ॥ ४७ ॥
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥ ४८ ॥
पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह ।मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ॥ ४९ ॥
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ।एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ॥ ५० ॥
अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत ।शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ।नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ॥ ५१ ॥
रथानामयुतं पक्षौ शिरश्च नियुतं तथा ।पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ।ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥ ५२ ॥
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ।जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ॥ ५३ ॥
जघनं पालयामास विराटः सह केकयैः ।काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ॥ ५४ ॥
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ॥ ५५ ॥
तेषामादित्यवर्णानि विमलानि महान्ति च ।श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ५६ ॥
« »