Click on words to see what they mean.

संजय उवाच ।राजञ्शतसहस्राणि तत्र तत्र तदा तदा ।निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ १ ॥
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् ।न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ॥ २ ॥
मातुलं न च स्वस्रीयो न सखायं सखा तथा ।आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ ३ ॥
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ ४ ॥
रथेषाश्च रथेषाभिः कूबरा रथकूबरैः ।संहताः संहतैः केचित्परस्परजिघांसवः ॥ ५ ॥
न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः ।प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ॥ ६ ॥
बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् ।सतोमरपताकैश्च वारणाः परवारणैः ॥ ७ ॥
अभिसृत्य महाराज वेगवद्भिर्महागजैः ।दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ ८ ॥
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः ।सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ ९ ॥
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ॥ १० ॥
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ ११ ॥
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ १२ ॥
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ॥ १३ ॥
गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः ।आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ॥ १४ ॥
प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः ।व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ १५ ॥
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः ।प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ १६ ॥
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ १७ ॥
गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ १८ ॥
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ १९ ॥
हयैरपि हयारोहाश्चामरापीडधारिभिः ।हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ॥ २० ॥
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ २१ ॥
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् ।शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ २२ ॥
बहूनपि हयारोहान्भल्लैः संनतपर्वभिः ।रथी जघान संप्राप्य बाणगोचरमागतान् ॥ २३ ॥
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ॥ २४ ॥
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः ।प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ २५ ॥
साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः ।सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥ २६ ॥
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः ।रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ॥ २७ ॥
पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः ।साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ २८ ॥
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ।विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः ॥ २९ ॥
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।नराश्वकायान्निर्भिद्य लौहानि कवचानि च ॥ ३० ॥
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ।महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ॥ ३१ ॥
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि ।विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ॥ ३२ ॥
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ।विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः ॥ ३३ ॥
शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः ।हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः ॥ ३४ ॥
रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः ।विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् ॥ ३५ ॥
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः ।मातुलान्भागिनेयांश्च परानपि च संयुगे ॥ ३६ ॥
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ।बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः ।क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ ३७ ॥
तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते ।भूमौ निपतिताः संख्ये जलमेव ययाचिरे ॥ ३८ ॥
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥ ३९ ॥
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् ।नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ॥ ४० ॥
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् ।भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ॥ ४१ ॥
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः ।निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ॥ ४२ ॥
अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे ।प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।अशोभन्त महाराज पुष्पिता इव किंशुकाः ॥ ४३ ॥
संबभूवुरनीकेषु बहवो भैरवस्वनाः ।वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥ ४४ ॥
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे ।स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ ४५ ॥
सखायं च सखा राजन्संबन्धी बान्धवं तथा ।एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ ४६ ॥
वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे ।भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ ४७ ॥
केतुना पञ्चतारेण तालेन भरतर्षभ ।राजतेन महाबाहुरुच्छ्रितेन महारथे ।बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ४८ ॥
« »