Click on words to see what they mean.

व्यास उवाच ।खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ॥ १ ॥
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् ।क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ॥ २ ॥
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ ३ ॥
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ ४ ॥
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् ।वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव ॥ ५ ॥
गोवत्सं वडवा सूते श्वा सृगालं महीपते ।क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ॥ ६ ॥
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ॥ ७ ॥
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि ।नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥ ८ ॥
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः ।अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ।उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ॥ ९ ॥
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ।विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ॥ १० ॥
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् ।श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ॥ ११ ॥
अभावं हि विशेषेण कुरूणां प्रतिपश्यति ।धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ॥ १२ ॥
सेनयोरशिवं घोरं करिष्यति महाग्रहः ।मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ॥ १३ ॥
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ।शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ।उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ॥ १४ ॥
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः ।ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ १५ ॥
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते ।चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ॥ १६ ॥
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः ।ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ १७ ॥
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी ।पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ॥ १८ ॥
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ १९ ॥
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् ।व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् ॥ २० ॥
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।कवचानां ध्वजानां च भविष्यति महान्क्षयः ॥ २१ ॥
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ॥ २२ ॥
एकपक्षाक्षिचरणः शकुनिः खचरो निशि ।रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ॥ २३ ॥
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ ।सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ २४ ॥
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ २५ ॥
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् ।वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ॥ २६ ॥
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते ।बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम् ॥ २७ ॥
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥ २८ ॥
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् ।अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः ॥ २९ ॥
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः ।उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ ३० ॥
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ॥ ३१ ॥
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः ।फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ।पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ॥ ३२ ॥
अद्य चैव निशां व्युष्टामुदये भानुराहतः ।ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ॥ ३३ ॥
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ ३४ ॥
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः ।सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥ ३५ ॥
महाभूता भूमिकम्पे चतुरः सागरान्पृथक् ।वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः ॥ ३६ ॥
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ॥ ३७ ॥
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः ।वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ।स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ ३८ ॥
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः ।मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ॥ ३९ ॥
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि ।गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ॥ ४० ॥
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च ।निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ ४१ ॥
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः ।रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ॥ ४२ ॥
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ ४३ ॥
वैशंपायन उवाच ।पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ॥ ४४ ॥
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे ।वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ ४५ ॥
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ ४६ ॥
« »