Click on words to see what they mean.

वैशंपायन उवाच ।ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः ।सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ १ ॥
भविष्यति रणे घोरे भरतानां पितामहः ।प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ २ ॥
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् ।शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ ३ ॥
व्यास उवाच ।राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ।ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥ ४ ॥
तेषु कालपरीतेषु विनश्यत्सु च भारत ।कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥ ५ ॥
यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते ।चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥ ६ ॥
धृतराष्ट्र उवाच ।न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥ ७ ॥
वैशंपायन उवाच ।तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।वराणामीश्वरो दाता संजयाय वरं ददौ ॥ ८ ॥
व्यास उवाच ।एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥ ९ ॥
चक्षुषा संजयो राजन्दिव्येनैष समन्वितः ।कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ १० ॥
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा ।मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥ ११ ॥
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ १२ ॥
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ ।पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ १३ ॥
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि ।न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ १४ ॥
वैशंपायन उवाच ।एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः ।पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥ १५ ॥
इह युद्धे महाराज भविष्यति महान्क्षयः ।यथेमानि निमित्तानि भयायाद्योपलक्षये ॥ १६ ॥
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः ।संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥ १७ ॥
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥ १८ ॥
खटाखटेति वाशन्तो भैरवं भयवेदिनः ।कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥ १९ ॥
उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत ।उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ २० ॥
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः ।त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥ २१ ॥
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् ।अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥ २२ ॥
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् ।चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥ २३ ॥
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ २४ ॥
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ २५ ॥
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च ।वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥ २६ ॥
अनाहता दुन्दुभयः प्रणदन्ति विशां पते ।अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ २७ ॥
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ २८ ॥
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः ।अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥ २९ ॥
उभे संध्ये प्रकाशेते दिशां दाहसमन्विते ।आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥ ३० ॥
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता ।अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ ३१ ॥
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ ३२ ॥
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् ।वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥ ३३ ॥
« »