Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम ।पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ॥ १ ॥
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः ।असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत् ॥ २ ॥
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा ॥ ३ ॥
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे ।क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ ४ ॥
कालोऽयं पुत्ररूपेण तव जातो विशां पते ।न वधः पूज्यते वेदे हितं नैतत्कथंचन ॥ ५ ॥
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् ।कालेनोत्पथगन्तासि शक्ये सति यथापथि ॥ ६ ॥
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ॥ ७ ॥
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् ।किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ॥ ८ ॥
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ ९ ॥
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ॥ १० ॥
धृतराष्ट्र उवाच ।यथा भवान्वेद तथास्मि वेत्ता भावाभावौ विदितौ मे यथावत् ।स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥ ११ ॥
प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः ।न चापि ते वशगा मे महर्षे न कल्मषं कर्तुमिहार्हसे माम् ॥ १२ ॥
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ॥ १३ ॥
व्यास उवाच ।वैचित्रवीर्य नृपते यत्ते मनसि वर्तते ।अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् ॥ १४ ॥
धृतराष्ट्र उवाच ।यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् ।तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ॥ १५ ॥
व्यास उवाच ।प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥ १६ ॥
गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र ।विशुद्धरश्मिस्तपनः शशी च जयस्यैतद्भाविनो रूपमाहुः ॥ १७ ॥
इष्टा वाचः पृष्ठतो वायसानां संप्रस्थितानां च गमिष्यतां च ।ये पृष्ठतस्ते त्वरयन्ति राजन्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ १८ ॥
कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र ।प्रदक्षिणाश्चैव भवन्ति संख्ये ध्रुवं जयं तत्र वदन्ति विप्राः ॥ १९ ॥
अलंकारैः कवचैः केतुभिश्च मुखप्रसादैर्हेमवर्णैश्च नॄणाम् ।भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥ २० ॥
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत ।न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ॥ २१ ॥
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः ।पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते ॥ २२ ॥
शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः ।सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ॥ २३ ॥
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च ।अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ॥ २४ ॥
एतानि जयमानानां लक्षणानि विशां पते ।भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥ २५ ॥
अल्पायां वा महत्यां वा सेनायामिति निश्चितम् ।हर्षो योधगणस्यैकं जयलक्षणमुच्यते ॥ २६ ॥
एको दीर्णो दारयति सेनां सुमहतीमपि ।तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ॥ २७ ॥
दुर्निवारतमा चैव प्रभग्ना महती चमूः ।अपामिव महावेगस्त्रस्ता मृगगणा इव ॥ २८ ॥
नैव शक्या समाधातुं संनिपाते महाचमूः ।दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ।भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते ॥ २९ ॥
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः ।नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ ३० ॥
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ।उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ ३१ ॥
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।जघन्य एष विजयो यो युद्धेन विशां पते ।महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ॥ ३२ ॥
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ।पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ।अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ॥ ३३ ॥
न वैनतेयो गरुडः प्रशंसति महाजनम् ।दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ॥ ३४ ॥
न बाहुल्येन सेनाया जयो भवति भारत ।अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत ॥ ३५ ॥
« »